पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ आयुर्वेदीयग्रन्थमाला । [अध्याय खाङ्गशीतं समुद्धृत्य सिन्दूराभमयोरजः । मृतं वारितरं ग्राह्य सर्वकार्यकरं परम् ।। २६१ ।। इल्यैकपुटि लोहभस्म । सर्वमेव मृतं लोह् ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थं तु सेव्यं वारितरं हि तत् ।। २६२ ।। मुधुघृतूगुग्गुळुगुञ्जाटङ्कणमेततु मित्रपञ्चकं नाम । मेलयति सप्तधातूनङ्गाराग्नीं प्रधमनेन ।। २६३ ।। मध्वाज्यं मृतलोह च सरूप्यं संपुटे क्षिपेत् । रुद्धूा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् । तदा लोहं मृतं विद्यादन्यथा मारयेत्पुन: ।। २६४ ।। इति मृतामृतलोहपरीक्षा । गन्धकेनोत्थितं लोहं तुल्य खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावै रुद्वा गजपुटे पचेत् ॥ इयेर्वे सर्वलोह्वाना कर्तव्येयं निरुत्थितेिः ।। २६५ ।। इल्यपकस्य निरुत्थीकरणम् । अर्थ मृतलोहस्यामृतीकरणम् द्विगुणे त्रिफलाक्काथे तुल्ये पिष्ट्राऽप्ययोरजः । विपचेन्मध्यपाकेन सर्वव्याधिजरापहम् ॥ २६६ ॥ इल्यमृतीकरणम् । जम्बीररससंयुक्त दरदे तप्तमायसम् । बहुवारं विनिक्षिप्तं म्रियते नात्र संशय: ।। २६७ ।। अथ लोहद्रुति: देवदाल्या रसैभीव्र्य गन्धर्क दिनसप्तकम् । तस्य प्रवापमात्रेण लीह्रास्तिष्ठन्ति स्रुतवत् ।। २६८ ।। सुरदालेिभव भस नरमूत्रेण गालितम् । त्रिसप्तवारं तत्क्ष्ारावापात्कान्तद्रुतिर्भवेत् ।। २६९ ।। इति कान्तद्रुतिः