पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] आयुर्वेदप्रकाश । १४७ तापीजं द्विरुदाहरन्ति विमलामाक्षीकभेदादिह त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः । तिस्रोऽष्यस्रयुताश्चतुस्त्रिफलकावृत्ताः खनामश्रियो मध्योक्ता सफला तु शुध्यति दिनं वासाजीरसे २५ खिन जम्भरसेऽपि तालबलिना वखंशकेनाम्भसा जम्भस्यैव परिसुता दशपुटैजवेन योगानुगाः ॥ २६ ॥ व्याख्या—तापीजं माक्षिकं द्विविधमुक्त, विमलामाक्षि कभेदात् । इह द्विविधभेदमध्ये, आद्या विमला, सा तु त्रे त्रिविधा। विमलाशब्दस्तु त्रिलिङ्गः। एका विमला सुवर्ण च्छायानुकारात् द्वितीया कायच्छायानुकारात्, तस्मात्कां विमलाऽप्यस्तीति सूचितं, तृतीया रजतच्छायानुकारात् , तत्तनमपूर्चिका विमला भवन्ति । यथा-खणीविमला, कास्य विमला, रजतविमला चेति । तत्र स्खणविमला खर्णमाक्षिक भेदः, कांस्यविमला कास्यमाक्षिकभेदः, एतद्वचनसामथ्यदेव कायस्यापि माक्षिकोऽस्तीति गम्यते, रजतविमला रजतमाक्षि- कभेदः । अथैषा माक्षिकेभ्यो भेदकानि लक्षणान्याह अमृस्तिस्रोऽपि, अस्र धारा, फलक चिपिट, वृत्तत्वं वर्तुलत्व, खनामश्रिय इत्यनेन खर्णादिप्रभा उक्ताः, मध्या कस्यचि- मला सफला उक्ता सचिपिटोक्ता । त्रयाणामपि शोधनमार णमाह--शुध्यन्तीति । दिनं चतुर्यामम् । वासा अटरूषः, अजी मेषशृङ्गी, अनयो रसे चूर्णीकृत्य वस्त्रबद्ध कृत्वा स्खिन्नस्तथा निम्बुरसे खिमाः युध्यन्ति । पश्चात्तालकः शुद्ध , बलिर्गन्धकः सोऽपि शुद्धःतेन समुचितेन अष्टमाशेन जम्भा- म्भसा त्रिवार भाविता दशपुटैर्न जीवेत् म्रियते । पुटे च प्रत्येकं भावना देया । तद्भस्म योगानुगं भवति यत्र रसे उक्तं तत्र प्रयोज्यम् । उक्तं च