पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ आयुर्वेदीयग्रन्थमाय । [अध्याय । त्रेधा स्याद्विमलः खर्णपूर्वको रूप्यपूर्वकः । कांस्यपूर्वश्च विख्यातस्तत्तत्कान्त्या से लक्ष्यते ॥ २७ ॥ विमलस्तपतीतीरवर्तिन्यद्रिविभागके । उत्पद्यते परैः कास्यमाक्षिकोऽयमिति स्मृतः ॥ । २८ ॥ आद्यो हेमक्रियादुक्तश्चरमः श्वेतकर्मसु । मभ्यो रजतनामा यः स प्रोक्तो वै रसादिषु ॥ २९ ॥ अथ लक्षणगुणाः वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः। मरुत्पित्तहरो वृष्यो विमलश्च रसायनः ॥ ३० ॥ अनुपानमपि रसपद्धत्याम्--- वेलच्योषवराज्येन विमलः सेवितो यदि । भगन्दरादिकान् रोगानृणा जयति दुस्तरान् ।। ३१ ॥ अथ रसपद्वत्याम् माक्षीको द्विरहादिमः कनकरुग्दुवणवणऽपरः कास्यश्रीकमुशन्ति केचन पर सर्वेऽपि पूर्वत्विषः । निष्कोणा गुरवः किरन्ति निभृतं घृष्टाः करे कालिका खिनस्ते रुबुतैललुङ्गसलिलैयमेन शुध्यन्ति च ॥३२ पका वा घटिकाद्वयेन कदलीकङ्कटिकाकन्दयो रूम्बा कूर्मपुटैस्त्रिभिः पडतरं लुडवम्बुगन्धयुक्ताः । स्युर्भसानि जघन्यमध्यमशुभास्ते व्युत्क्रमेणोदिता वृष्याः पाण्डुपटीयसो बलकरा योगोपयुक्ताः पुनः ३३ व्याख्या–माक्षीको द्विविधः—आदिमः कनकरु, तेनासौ कनकमाक्षिक इत्यर्थःपरो द्वितीयःदुर्वर्णवर्णः दुर्वर्ण रजतं तद्वर्णः, अतो रजतमाक्षिकमिति; कास्यश्रीकं कायवर्ण केचन आचार्याः पर तृतीयं कास्यमाक्षिकमुशन्ति । सर्वेऽपि माक्षिकत्रयमपि, पूर्वत्विषः विमलाकान्तयोर्भवन्ती- ९ २