पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
आयुर्वेदप्रकाश ।

अथोनविंशतिकमीणि ।
यथा-खेदनमर्दनमून्छैनोत्थापनपातूनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगभैदुति-बाह्यदुति-योगजारणरञ्जनसारणक्रामणवेधनभक्ष्णाख्या ऊनविंशतिसंस्काराः सूतसिद्धिदा भवन्ति; दीपनान्ता अष्टी संस्कारा वा देहसिद्धिदा भवन्ति ।
अथ तेषु खेद्नविधि: ।--
नानावान्यैयेथाप्रानैस्तुषवर्जेर्जलान्वितैः ।
स्रुञ्झाण्ड पूरितं रक्षेद्यावदम्लत्वमामुयात् ॥ ३७ ॥
तन्मध्ये घनवायुण्डीविष्णुक्रान्तापुनर्नवाः ।
मीनाक्षी चैव सपक्षी सहदेवी शतावरी ॥ ३८ ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रक: ।
सैमूलकाण्डं पिष्ठा तु यथालाभं विनिक्षिपेत् ।। ३९ ॥ पूर्वीम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
खेदनादिषु सर्वत्र रसराजख योजयेत्।
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ।। ४० ।।
घनो मुस्ता, वाक् ब्राह्मी, केचित् 'तन्मध्ये भडुरामुण्डी' इति पठन्ति, मुण्डी प्रसिद्धा, विष्णुक्रान्ता श्वेतपुष्पा अपराजिता, पुनर्नवा गन्धपूर्णेति भाषा, मत्स्याक्षी मीनाक्षी 'मछेछी' इति भाषा, (हुँनगुदा इत्यपि) सर्पाक्षी सर्पनेत्रोपमा ‘चुची' इति भाषा, सहदेवी प्रसिद्धा, शतावरी शतावरीति भाषा, त्रिफला प्रसिद्धा, गिरिकर्णी नीलपुष्पा अपराजितैव, इंसपादी हँसचरणा,. चित्रकः प्रसिद्धः । समूलकाण्डं समूलशाखं, यथालाभ अर्धसंख्याधिकमिति गुरुसङ्केतः ॥


१ समूलकानि पिष्टानि' क २ 'उलगुन्दा' ख.