पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] आयुवेदप्रकाश । १४९ त्यर्थः । विमल भ्यो भेदकं लक्षणमाह—निष्कोणा धारार हिताःगुरवो भारयुक्तः, करे हस्ते धृष्टः कालिक किरन्ति । शुद्धिमाह--खिन इति । रुबुतैलमेरण्डतैल, लुट्टी मातुलुङ्गं तसलिलैः, ककटिका खसा, तस्याः कन्दं मूलं, तयो रब्बा जलेन पकाः शु यन्ति । स्वेदनं तु चूर्णीकृत्य दोलायन्त्रेण । पश्वङङ्गाम्बु मातुलुङ्गरसः, गन्धकश्च, आभ्यां भाविताः, कूर्मपुटैस्त्रिभिर्दग्धा भस्सानि स्युः । ते च व्युत्क्र मेण कास्यतारसुवर्णसंज्ञकाः जघन्यमध्यमोत्तमा उदिताः । वृष्या शुक्रप्रदाः। पाण्डुपटीयसः पाण्डुम्नः । तथा बलकराः योगे उपयुक्ताः सन्तो बलकरा भवन्ति । इति माझीकविम लानिर्णयः ॥ अथ तुत्थोत्पसिनामलक्षणशोधनगुणाः। गरुडेनामृत पीत्वा पश्चात्पीत विषं पुरा । वान्त मरकताद्रौ तु तद्धन शिखितुत्थकम् ॥ ३४ ॥ तुत्थ वितुन्नक चापि शिखिग्रीव मयूरकम् । तुत्थ ताम्रोपधातुः स्यात्किचित्तात्रेण तद्भवेत् ॥ ३५ ॥ किचित्ताम्रगुणं तस्माद्वक्ष्यमाणगुण च तत् । तुत्थस्यैव भवेद्वेदः खर्पर तदृणं च तत् ॥ ३६ ॥ शिखिकण्ठसदृक्छायं भाराढ्यं तुत्थकं च यत् । गुणवत्तत्परिज्ञेयमन्यद्धीनगुणं मतम् ।। ३७ ॥ गुणाः तुर्थे तु कछुक क्षारं कषायं वामक लघु । लेखनं भेदन शीतं चक्षुष्यं कफपित्तहृत् ॥ ३८ ॥ विषाश्मकुष्ठकण्डून खर्पर चापि तदुणम् । वान्ति भ्रान्तिमशुद्धं तत् कुरुते, शोधितं शुभम् ॥ ३९ ॥ १ ‘विषापस्मारकण्डुन’ ग ।