पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० आयुर्वेदीयग्रन्थमाला । [ अध्याय जोधनम् विष्ठया मर्दयेतुत्थं मार्जारककपोतयोः दशाशं टङ्कण दत्वा पचेलघुपुटे तथा । पुट दस्रा पुट क्षौद्रेर्देयं तुत्थविशुद्धये ॥ ४० ॥ इति तुत्थशुद्धिः प्रकारान्तरम् ओतोर्विशा सम तुथ सक्षौद्रं टङ्कणाद्वियुक् । त्रिधैव पुटित शुद्ध वान्तिभ्रान्तिविवर्जितम् ।। ४१ ॥ प्रकारान्तरम् अम्लवर्गेण लुलित स्नेहसिक्त हि तुर्थकम् । दोलाया वाजिगोमूत्रे दिन पकं विशुध्यति ॥ ४२ ॥ इति तुत्थशुद्धिः । कचिन्मारणमप्युक्तं तुत्थकस्य- गन्धाश्मटङ्कणयुत लकुचद्रावमर्दितम् । अन्धमूषागतं द्वित्रिकुकुटैर्भूतिमाप्नुया ।। ४३ ॥ अथ तुत्थसत्चाकृष्टिः तुत्थक टङ्कणयुतं निम्बूद्वाविमर्दितम् । अन्धमूषागतं ध्मात सव मुञ्चति ताम्रकम् ।। ४४ ॥ अथात्र मुद्रिकोपयुक्तत्वेन भूनागस्खरूपं सन्वाकृष्टिश्च प्रोच्यते भूनागः क्षितिनागश्च भुजङ्गो रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ४५ ॥ । भूनागो वजमारः स्याननाविज्ञानकारकः । । रसय जारणे प्रोक्तं तत्सर्वं तु रसायनम् ॥ ४६ ॥ वर्षासु वृष्टिसंक्लित्रभूगर्भ संभवन्ति हि । जन्तवः कृमिरूपा ये ते भूनागा इति स्मृताः ॥ ४७ ॥ चतुर्विधास्तु भूनागः स्खणदिखनिसंभवाः । खर्ण भूमिभवाः पीता रूप्यभूमिभवाः सिताः ॥ ४८ ॥