पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] आयुर्वेदप्रकाशः । १५१ ताम्रभूमिभवास्ताम्राः कृष्णा लोहमयीभवाः। रसेन्द्रप्राणरूपास्ते भूनागाः सिद्धसंमताः ॥ ४९ ॥ खर्णादिभूमिसंभूता दुर्लभास्ते प्रकीर्तिताः । ताम्रभूमिभवा प्रायः सुलभा गुणवत्तराः ॥ ५० ॥ उक्त च ताम्रभवभूनागानिशाइपिष्टान् समेन तान् । गुडगुग्गुलुलाक्षोणमत्यपिण्याकटङ्कणैः ॥ ५१ ।। दृढमेतैश्च सयोज्य मर्दयित्वा धमेत्सुखम् । मुञ्चन्ति ताम्रवत्सवं ते, पक्षा अपि बर्हिणाम् ।। ५२ ।। ते भूनागाः ॥ भूनागसन्धं शिशिर सर्वकुष्ठव्रणप्रणुत् । तद्युक्तजलपानेन स्थावरं चापि जङ्गमम् ॥ ५३ ॥ विषं नश्यत्,ि तत्पात्रगतः सूतोऽग्नितो दृढम् । एव म्यूपोत्थसच्चस्यापि गुणा मताः ।। ५४ ।। दृढ बभ्यते इत्यर्थः । इति भूनागमचमयूरपक्षसत्वगुणाः । प्रकारान्तरेण तुत्थसवम्-- तुत्थस्य टङ्कण पादं चूर्णयेन्मधुसर्पिषा । तुत्थेन मिश्रितं ध्मातं कोष्ठीय दृढाग्निना । मापितं द्रवते सर्वे कीरतुण्डसमप्रभम् ।। ५५।। इति तुत्थसवम् । रसपद्धत्या तुत्थसवभूनागसर्पयोर्मि लितयोर्मुद्रिकायाः फलमुक्तम्— घस्त्रं प्रीतिकरञ्जतैलनिहितं पादाशसौभाग्यकं मात तुत्थरजोऽथ पात्रपिहितं दीप्तैरलातत्रयैः। यद्वा मानुषनीलकेशनिहितं सुवेक्षणातुत्थक तानं शोणितबिन्दुबन्धुरमदो भूनागसत्वं तथा ॥५६॥ १ ‘सामिकर°ख ।