पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ आयुर्वेदीयमनभाया। [अभ्यावर कायं कषाय तिक्तोष्णं लेखनं विशद सरम् । गुरु नेत्रहितं रूक्ष कफपित्तहरं परम् ॥ ६२ ॥ कायं च द्विविधा प्रोक्तं पुष्पतैलिकभेदतः । पुष्पं श्वेततमं तत्र तैलिकं कपिशप्रभम् । एतयोः प्रथमं श्रेष्ठ संसेव्यं रोगशान्तये ॥ ६३ ॥ अथ पित्तलम्- पित्तल त्वारकूटं स्यादारो रीतिश्च कथ्यते । राजरीतित्रैलरीतिः कपिला पिङ्गलाऽपि च ॥ ६४ ॥ रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च । पित्तलस्य गुणा ज्ञेयाः स्खयोनिसदृशा बुधैः ॥ ६५॥ संयोगजम्नभावेन तस्यान्येऽपि गुणाः स्मृताः। रीतिका द्विविधा प्रोक्ता तत्राद्या राजरीतिका ॥ ६६ ॥ काकतुण्डी द्वितीया स्यात्तयोराद्या गुणाधिका । संतप्त काञ्जिके क्षिप्त ताम्रा स्याद्राजरीतिका ।। ६७ ॥ काकतुण्डी तु कृष्णा स्यान्नसौ सेव्या विजानता। श्वेतं दीनं मृदुज्योतिः शब्दाद्य स्निग्धनिर्मलम् ॥ ६८ ॥ घनाग्निसहस्रत्रातुं कास्यमुत्तममीरितम् । शुद्ध निग्धा मृदुः शीता सुरङ्गा मूत्ररूपिणी ।। हिमोपमा शुभा खच्छा राजरीतिः प्रकीर्तिता ।। ६९ ॥

--> रीतिकायुगलं रूक्ष तिक्तं च लवणं रसे । शोधनं पाण्डुरोगन क्रिमिन नातिलेखनम् ॥ ७० ॥ एतस्य भस तु निम्बाष्टकचूर्णेन सह भळाततिलब्रह्मबीजा जमोदाग्निभिः सेवितं जन्तुन्नं भवति श्वेतकुष्ठहरं च भवति ।