पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५ १२] आयुवेदप्रकाश । सुवर्णरीतिचूर्णमनादिना छागेन भक्षितं तद्विष्ठा खर्परे लिखा पश्चात्तखर्परं दग्धं रीति मुवति । ता रीतिमेकीकृत्य, आचर्य, बुद्रिका कृत्वा धारयेत् । सा सुवर्णचतुर्दशवर्णतुल्या भवति । अथोभयोः शोधनमरणम् पत्तलीकृतपत्राणि कायरीत्योः प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले ती च काञ्जिके ।। ७१ ॥ गोमूत्रे च कुलत्थाना कषाये च त्रिधा त्रिधा । एव कास्यस्य रीतेश्च विशुद्धिः सप्रजायते ॥ ७२ ॥ विशेषशोधन यथा गोमूत्रेण पचेद्यामं कास्यपत्राणि बुद्धिमान् । दृढाग्निना विशुध्यन्ति पकान्यम्लद्वेऽपि वा ॥ ७३ ॥ रीतिस्तप्ता तु निर्गुण्डीरसे श्यामारजोन्विते । निषिक्ता शुद्धिमायाति पका वाऽम्लद्भवेऽपि च ॥ ७४ ॥ अथ मारणम् अर्कक्षीरेण संपिष्टो गन्धकस्तेन लेपयेत् । समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ ७५ ।। ततो मृषापुटे धृत्वा पुटेद्रजपुटेन च । एवं पुटद्वयात्कास्यं रीतिश्च म्रियते ध्रुवम् ।। ७६ ॥ कास्यकं राजरीति च ताम्रवच्छोधयेद्विषक् । ताम्रवन्मारण चापि तयोरुक्तं भिषग्वरैः ॥ ७७ ॥ । अथ भर्तसंशं पञ्चलोहं पश्चरमनामकमधि- कोपधातुर्भवति । यथा कास्यं रीतिस्तथा ताजें नागो वङ्गश्च पञ्चमः । एकत्र द्रावितैरेतैः पञ्चलोहं प्रजायते ॥ ७८ ॥