पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ आयुर्वेदीयग्रन्थमाला । [ अध्याय पञ्चलोहं पञ्चरसं वर्तुल भर्तमित्यपि । व्यञ्जनं रूपमन्यच्च तद्भाण्डे साधितं शुभम् ॥ ७९ ॥ आदौ तैलादिके शोध्यं पथात्तस्वाऽजमूत्रके ।। निषिक्तं शुद्धिमायाति पञ्चलोह न संशयः ॥ ८० ॥ अर्कक्षीरेण संपिष्टगन्धतालकलेपनात् । पञ्चकुम्भपुटैर्भर्त म्रियते योगवाहकम् ।।८१ ॥ इति भर्तमारणम् । घृतवजं बुधैः सर्व पाच्य कास्यय पात्रके । भोजन तु प्रशस्त स्याद्रीतिका मध्यमा स्मृता ॥ ८२ ॥ अथ सिन्दूरम् । सिन्दूर रक्तरेणुश्च नागगर्भ च सीसकम् । सीसोपधातुः सिन्दूरं गुणैस्तसीसवन्मतम् ॥ ८३ ॥ संयोगजप्रभावण तस्याप्यन्ये गुणाः स्मृताः। सिन्दूरमुष्ण वीसर्पकुष्ठकण्डुविषापहम् । भग्नसन्धानजननं व्रणशोधनरोपणम् ।। ८४ ॥ अथ शोधनं, तत्र शोधनयोग्यासिन्दूरलक्षणम् सुरङ्गोऽग्निसहः स्निग्धः सूक्ष्मः खच्छो गुरुर्युदुः । सुवर्णाकरजः शुद्धः सिन्दूरो मङ्गलप्रदः । दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ॥ ८५ ॥ मतान्तरम् सिन्दूर निम्बुकद्रावैः पिष्ट्वा घमें विशोषयेत् । ततस्तण्डुलतोयेन तथाभूत विशुद्धयति ॥ ८६ ॥ सिन्दूरस्य प्रयोगो हि न दृष्टः कुत्रचित् पृथक् । तसादुक्तस्थले योज्यनुपदेश गुरोरिति ॥ ८७ ॥