पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ] आयुर्वेदप्रकाश । १५७ अथ शिलाजतोरुत्पतिनामलक्षणगुणशोधना । शिलाजतु द्विधा प्रोक्तं तत्राधं गिरिसंभवम् । द्वितीयं स्यात्क्षारभूम्या मृत्तिकाजलयोगतः ॥ ८८ ॥ आद्य यथा निदाघे घर्भसंतप्त धातुसारं धराधराः। निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ ८९ ॥ सौवर्णं राजतं ताम्रमायसं च चतुर्विधम् । शिलाजतु हि विज्ञेयं तत्तल्लक्षणलक्षितम् ॥ ९० ॥ सौवर्णं तु जपापुष्पवर्ण भवति शैलजम् । मधुर कटु तिक्तं च शीतलं कडुपाति च ॥ ९१ ॥ राजतं पाण्डुर शीत कटुकं खादुपाकि च । तूफ़ी मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते ॥ ९२ ॥ लौह जटायुषभ तत्तिक्तं लवण भवेत् । विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥ ९३ ॥ अन्यच्च गोमूत्रगन्धि यकृष्णं द्धिं मृदु तथा गुरु । तिक्तं कषायं शीतं च सर्वश्रेष्ठ तदायसम् ॥ ९४ ॥ लक्षणान्तरम् यत्तु गुग्गुलुसंकाशं तिक्तं च लवणान्वितम् । विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ॥ ९५ ॥ वातपित्ते तु सौवर्ण श्लेष्मपित्ते तु राजतम् । ताम्रजं कफरोगेषु लोहजं तत्रिदोषनुत् ॥ ९६ ॥ विन्ध्याद्रौ बहुलं तेषु तत्र लौहं यतोऽधिकम् ।। तच्छोधनमृते व्यर्थमनेकमलमेलनात् ॥ ९७ ॥ शिलादं कटु तिक्तोष्णं कडुपाकं रसायनम् । १४