पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

त्र्यूषणं लवण राजी लशुनं त्रिफलाऽऽर्द्रकम् ।
महोबला नागबला मेघनादः पुनर्नवा ॥ ४१ ॥
मेषशृङ्गी चित्रकश्च नवसारः समं समम् ।
रसस्य षोडशांशेन सर्वे युञ्ज्यात् पृथक् पृथक् ।। ४२ ।।
एतत्समस्त व्यस्तै वा पूर्वाम्लेनैव पेषयत् ।
श्रलिम्पेत्तेन कल्केन वस्त्र चाङ्गुलिमात्रकम् ।। ४३ ।।
तन्मध्ये निक्षिपेत्सूत बद्धा तत्रिदिनं पचेत् ॥
दोलायत्रेऽम्लसंयुते जायते खेदितो रसः ।। ४४ ।।
मेघनादस्तण्डुलीयभेद: पत्रशाकविशेषः ‘चवलाई’ इति भाषा, श्रृङ्गी मेषशृङ्गी तदलाभे कर्कटश्रृङ्गी ग्राह्मा, नक्सारो नवसागरः क्षारविशेषः ।
अथान्यसिद्धमतम् --
त्र्यूषणं लवणासुयों चित्रकार्द्रकमूलकम् ।
पिष्ठा स्रुतो मुहुः खेद्यः काञ्जिकेन दिनत्रयम् ।। ४५ ।।
त्र्यूषणं त्रिकुटु, लवणं सैन्धवं, आासुरी राई, चित्रकः श्रसिद्धः,आर्द्रक शृङ्गवेरं, मूलकं श्वेतमूलकः ‘मुली' इति भाषा । ष्ट्रिा तत्कलेन वर्ख लिप्त्वेत्यादि पूर्ववत् । मुहुरिति प्रतिदिनं कल्काट्टत्तिरित्यर्थः । अथान्यसिद्धमतम् -
दिर्न व्योषवरावह्विकन्याकल्केषु काञ्चिके ।
रसं चतुर्गुणे वस्ने बद्धा दोलाकृतं पचेत् ॥ ४६ ॥
व्योषं त्रिकटु, वरा त्रिफला, वह्निश्वित्रक:; कन्या ‘कुवारी' इति भाषा, तन्मध्यगर्भो ग्राह्यः ।
अन्यञ्च-
रसस्य षोडशाशेन द्रव्यं युञ्ज्यात्पृथक् पृथक् ।
द्रव्येष्वनुक्तमानेषु मतं मानमिदं बुधैः ।। ४७ ।।