पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ] आयुर्वेदप्रकाश । १५९ पात्रे तदन्यत्र ततो विदध्यात्तस्यान्तरे कोष्णजल निधाय । ततश्च त्तस्सादपरश्न पात्रे तसाच पात्रादपरत्र भूयः॥ १०८ ॥ पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहृतं तत्पुनराहरेच्च । यदा विशुद्धं जलमच्छपूर्व प्रसन्नभावान्मलमेल्यधस्तात् १०९ तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याञ्जलशुद्धमेवम् । चतुर्थपात्राद्वलितं हि सर्व परीक्षण तय वदामि भूयः॥११०॥ यथा वह्नौ क्षिप्तं तु निघूमं पक्त्वा लिङ्गोपमं भवेत् । तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् । गोमूत्रगन्धि मलिन शुद्धं ज्ञेय शिलाजतु ॥ १११ ॥ एवं शुद्धय गुणाः प्रागुक्ताः । अथ नामानि शिलाजत्विन्द्रजतु च शैलनियस इत्यपि । गैरेयमश्मजं चापि गिरिजं शैलधातुजम् ॥ ११२ ॥ अथ शीघकार्यवशात्संक्षिप्तशोधनं यथा गोदुग्धत्रिफलाभृङ्गद्भवैः पिष्टं शिलाजतु ।। दिनैक लोहजे पात्रे शुद्धिमायात्यसशयम् ॥ ११३ ॥ इति संक्षिप्तशुद्धिः । अथैवं शुद्धस्य गुणोत्कर्षाय भावना त्रिफलावारिगोदुग्धसूत्रैर्भाव्यं शिलाजतु । खपं खल्पं विधानेन स्थापयेत्काचपात्रके ॥ ११४ ॥ अगुर्वादिशुभैर्धपैर्युपयेत्तत्प्रयत्नतः मात्रया शीलयेत्पश्चत्त्रिग्धशुद्धो यथाविधि ।। ११५ ।। एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् । हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ ११६ ॥ क्षीरेणालोडितं कुर्याच्छीघ्र रासायनं फलम् । हन्याद्रोगानशेषांश्च जी हितमिताशनः ॥ ११७ ॥