पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ आयुर्वेदीयग्रन्थमाला। [अध्यायः व्यायामातपमारुतचेतःसंतापगुरुविदाद्यदि । उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥ कुलत्थान् काकमाची च कपोताश्च सदा त्यजेत् । पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ।। ११९ ॥ न सोऽस्ति रोगो भुवि साध्यरूपो जत्वमजं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिवत्प्रयुक्तं खस्थस्य चोर्जा विपुला दधाति १२० सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् । जयत्यभ्यासतो नूनं तांस्तान् रोगान सशयः ॥ १२१ ॥ रसोपरसस्रतेन्द्ररत्नलोहेषु ये गुणाः। विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२॥ अस्य भसप्रकारो रसपद्धत्याम् शिलया गन्धतालाभ्या मातुलुङ्गरसेन च । पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥ सत्यप्रकारस्तु पिष्टं द्राव्णवर्गेण साम्लेन गिरिसंभवम् । रुद्मा मूषोदरे ध्मातं कोकिलैः सत्वमृच्छति ॥ १२४ ॥ अथ द्वितीयं शिलाजतु रसपङ्क्त्याम् द्वितीयं सोरकाख्य स्याच्चेतवर्ण शिलाजतु । अग्निबाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५॥ उत च पाण्डुरं सिकताकारं कपॅराभं शिलाजतु ।। मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ।। १२६ । १ रसपद्धत्यामेव पठ्यते,-“वह्नयुत्तेजनमुज्वल यदपर मूत्रामयिभ्यो हि तम्”-इति, ‘वढ्युत्तेजनमिति यदपर श्वेत शिलाजतु तद्वद्युत्तेजक वहिप्रदी पक, अत्र जठराग्निर्न ग्राह्य , कितु अग्निशस्त्राणि, तत्राने प्रदीपक , ‘सोरा' इति लोके प्रसिद्ध , अग्निबाणेषु (अयनेषु ‘दारुबारुद Gunpowder' इति प्रसिद्धपदार्थनिर्माणार्थ ) प्रयुज्यते” इति रसपद्धतिटीकाया महादेव ।