पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ] १६१ एलातोयेन संभिन्न सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सचपातनं विहितं बुधैः ॥ १२७ ॥ उत्पत्तिस्तु मृत्तिकाविशेषाजलविशेषाज्जायते । इत्युपधातुनिरूपणम् । अथ चपलाख्य उपधातुरधिकोऽस्ति । तद्यथा रसपद्धत्याम् चत्वारश्चपला सितासितहरिच्छोणप्रभेदैः पुन मघौ शोणितशोणकञ्जलनिभौ लाक्षावदाशुद्भवात् । शेषौ तु द्रवतश्चिरेण सुभगौ तौ शुध्यतः सप्तधा ककव्याद्भकजम्भलस्य सलिले संदितौ वा प्लुतौ १२८ प्राथम्याङ्गसमुन्धिनौ तदुपरि स्याता तु योगानुगौ वृष्यौ दोषहरौ बुधैर्निगदितौ माक्षीकभूम्युद्भवौ । मोघौ निष्फलौ । शेषौ हरितसितौ । सुभगौ गुरुतरौ । प्राथ म्यात्प्रथमतस्तु रसचन्धकौ भवती । शेषं स्पष्टम् । अन्यत्रापि चतुध चपलः प्रोक्तः श्वेतः कृष्णोऽरुणो हरित् । चङ्गवत्प्लवते वह्नौ चपलस्तेन कीर्तितः ॥ १२९ ॥ चपलः स्फटिकच्छायः षडस्थं स्निग्धको गुरुः। त्रिदोषभोऽतिवृष्यश्च रसबन्धविधायकः ।। १३० ॥ अयं परसे कैश्चित्पठितोऽन्यै रसेषु च । विषोपविषधान्याम्लैर्मर्दितश्चपलस्ततः। अन्धमूषागतो व्मातः सत्वं मुञ्चति कार्यकृत् ॥ १३१ ॥ इति चपलः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रक्शे द्वादशोऽध्याय ॥ १२ ॥