पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। आयुर्वेदीयग्रन्थमाला। [ अध्याय अथ त्रयोदशोऽध्यायः । अथ रत्नपरत्नानामुत्पत्तिनासलक्षणगुणशोधनसारणानि । उiत च मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः। देहस्य धारका नृणां जराव्याधिविनाशकाः ॥ १ ॥ रत्ननिरुक्तिः धनार्थिनो जनाः सर्वे रमन्तेऽसिनतीव यत् । अतो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ २ ॥ अथ रत्ननामानि स्खरूपनिरूपणं च रत्नं क्लीबे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति वज़ादि च तदुच्यते ॥ ३ ॥ रसपद्धत्याम् बज़ विद्रुममौक्तिके मरकतं वैडूर्यगोमेदके माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाना नव । यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीम्नि स्फुटं नाम्ना तान्युपरत्नतान्युपगतान्याहुः परीक्षाकृतः ॥४॥ वजं हीरकः, विद्रुमं प्रवालं, मौक्तिकं मुक्ता, मरकतं गरुडोद्रः ’पन’ इति भाषा, वैडूर्य चिदुरमणिः, गोमेदः अनेनैव नाम्ना प्रसिद्धः, माणिक्यं पद्मरागःहरिनीलः इन्द्र नीलःपुष्पदृषत् पुष्परागः। शेषं स्पष्टम् । विष्णुधर्मोत्तरेऽपि- मुक्ताफलं हीरकं च वैडूर्यं पद्मरागकम् । । पुष्परागं च गोमेदं नील गारुत्मतं तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ ५ ॥ इति ॥ उपरत्नान्यन्यत्र वैक्रान्तः स्रर्यकान्तश्च चन्द्रकान्तस्तथैव च । राजावर्ता लालसंज्ञः पेरोजाख्यस्तथाऽपरः ॥ ६ ॥