पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३ १३ } आयुर्वेदप्रकाश । मुक्ताशुक्तिस्तथा शङ्पॅरामाऽथ काचजाः। नीलपीतादिमणयोऽप्यन्ये विषहरा हि ये ॥ ७ ॥ वह्नयादिस्तम्भका ये च ते सर्वे हि परीक्षकैः । उपरत्नेषु गणिता मणयो लोकविश्रुताः ॥ ८ ॥ अथ रत्नाना नामानि हीरकः पुंसि वजोऽस्त्री चन्द्रो मणिवरश्च सः । गारुत्मतं मरकतमश्मगर्भा हरिन्मणिः ॥ ९॥ माणिक्य पझरागः स्याच्छोणरक्तं च लोहितम् । पुष्परागो मनुमणिः स्याद्वाचस्पतिवञ्चभः ॥ १० ॥ । इन्द्रनीलं च नील च, गोमेदः पीतरक्तकम् । वैडूर्य दूरजं रतं यात्केतुग्रहचटुभम् ॥ ११ ॥ मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् । पुसि क्लीबे प्रवालः स्यात्पुमानेव तु बिटुमः॥ १२॥ शुक्तिः शवो गजक्रोडः फणिमेत्स्यश्च ददुरः । वेणुश्चाष्टौ समाख्याता सुलैमौक्तिकयोनयः ॥ १३ ॥ अथ वीरकोत्पत्तिलक्षणानि । दधीच्यश्नः समुत्पन्नः पविस्तस्य कणाः क्षितौ । विकीर्णास्ते तु वजाख्या भजन्ते तच्चतुर्विधम् ॥ १४ ॥ श्वेतं द्विजाभिधं रक्तं क्षत्रियाख्यं तदीरितम् । पीतं वैश्याख्यमुदितं कृष्णं स्याच्छूद्रसंज्ञकम् ॥ १५॥ विश्रो रसायने प्रोक्तः सर्वसिद्धिप्रदायकः। क्षत्रियो व्याधिविध्वंसी जरादृत्युहरः परः ॥ १६ ॥ वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दाढर्यकृत् । शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ।। १७ ॥ स्त्रीपुंनपुंसकाचैते लक्षणीयाश्च लक्षणैः। सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता वृहत्तराः ॥ १८ ॥