पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ॥ आयुर्वेदप्रकाश । १६५ स्पष्टम् । अत्र युगभेदेन व्यवस्था, अस्तु वा त्रिभ्य उत्पत्तिः, तथा सति कि बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट प्रकारकं विज्ञानमाह उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं मूल्यं मण्डलिकेति रत्नदृषदां ज्ञानं वैर चाष्टधा । अत्रैकप्रसरेण नोक्तमपि तैत्तत्तत्परीक्षास्थल श्लोकश्लोकितमेकशः खलु विदाकुर्वन्तु वैज्ञानिकाः।२७ मण्डली रत्नपरीक्षकाणा सभा । उत्पयादिकं भिन्नभिन्न श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि ति । एतेन समस्तश्लोकैर्यस्तश्लोकैरपि एकीभूतैरिव हीरकप रीक्षा कर्तव्येति भावः । भूमि प्रतिपाद्य पवेर्सेदानाह ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः । पुंस्त्रीन्लीयविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा । तत्र श्वेतरुचिर्द्धिजः स्फ़टिकवद्रक्तस्तु किचिनृपो वैश्यः पीतरुगद्विजस्त्वसितभास्तत्राप्ययं पूरुषः ॥ २८।। रेखाबिन्दुविवर्जितोऽष्टफलकः खच्छच्छवियों भवे त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः। निष्कोणाश्चिपिटास्त्रिकोणवपुषो दीघ विषुस्त्वा पुन धेयाः त्रीनृनपुंसकैर्युवतिर्गुषण्डाभिधानाः क्रमात् २९ व्याख्यायः स्फटिकवच्छेतरुचिः स द्विजः, यः किचि- द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार णादिभिर्धर्मार्थौ भवत इत्याह यद्वेदाध्ययनात्क्रतोरपि कृतेदनस्य वा यत्फलं तत्प्राप्नोति पुमानतो वरतनोर्वज्ञस्य संधारणात् । १ ‘वदन्यष्टधा' ग । २ ‘अथैकप्रसरेण’ ग । ३ ‘तज्ज्ञान’ ग ।