पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः चातुर्वर्यपरिग्रहादपि चतुर्वर्णाश्रयश्रेयसा संयुक्तामुररीकरोतु न कथंकार् स भूति पराम् ॥ ३०॥ अथ शूद्रवणोंऽषि पवर्द्रिजवर्णात्पवेरधिक इत्याह- शूद्रादप्यधमो द्विजो यदि गुणैहीनः पवित्रंह्मणा दप्युचैरयमर्धमर्हति पुनः शूद्रो गुणैगरवात् । आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहा स्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ३१ अथ पवेदोषानुपदिशति बिन्दुः काकपदं यवः किल मलो रेखेति नानोदिता दोषाः पञ्च पवेरथात्र कथिता बिन्दुः समो बिन्दुना । कृष्णो रक्त इति क्रमेण स पुनर्दीधा मतो वर्तुला वर्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्वोऽपि सः ३२ ग्रहीतुगृहकस्य अफलः धनादिलाभस्याकर्ता । सर्वोऽपि बिन्दुर्न शस्तः । अथ काकपदं लक्षयति ज्ञेयं काकपदं तु काकचरणाकार परीक्षाकृता वी श्रीमति सस्थितं पुनरिदं धर्तुर्भवेन्मृत्युदम् । यवं लक्षयति रक्तपीतसितासितच्छचिभिदा ज्ञेयश्चतुर्धा यवा कारस्तत्र यवः सितः खलु पवेः पूज्योऽपरे निन्दिताः॥३३॥ अथ मलं लक्षयति धाराकोणकमध्यसंस्थिततया त्रेधा मलो रत्नवि व्याख्यातः स पुनगृहीतुरनलव्याघ्रादिभीतिप्रदः। अथ रेखा लक्षयति सव्यासयनिवासिनी तदपरा तत्र स्थिता छेदिनी छिना चोध्र्वगतिर्गताध्वमिति ता रेखाश्चतस्रो मताः३४॥ १ ‘धारायामथ कोणयोनिगदितो मध्ये च लहू मलनेवा सोऽप्यनलादिभी तिजननो धर्नुर्भवेन्निश्चितम्’ इति रसपद्धत्या पाठ ।