पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] आयुर्वेदप्रकाश १६९ यावत्स्याद्धणिनस्ततस्त्वगुणिनो वृद्धेश्वतस्रः कला इछेत्तव्याः कुशलेन देशसमयद्रव्यात्मविज्ञानिना।।४४।। अथ मौल्यप्रयोक्तुर्गुणानाह कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी निःसंदिग्धमतिर्वेिदेशविधिविन्मौल्यप्रयोक्ता भवेत् अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं कुष्ठी सोऽत्र भवेदङत्र स पुनर्गच्छेन्महारौरवम् ।४५॥ कर्मज्ञ इत्यादि । लघुपाणिर्थेन गृहीत्वा दत्तं गुणाय भवति सः, अर्थविमुखः मध्येऽकापट्यं कृत्वा स्थितो यस्तादृशः, गुणी निःसंदिग्धमतिः अनेकरत्नग्रहणेन जातमतिः, विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः एवं प्रयोक्ता रत्नमौल्यस्य भवेत् । अथैतादृग्चातुर्याभावे प्रयो तुदंषमाह-अज्ञानादिति । अत्रत्र परलोके, महारौरवं नर कम् । अथ सुद्धादौ पविविन्यासप्रकारमाह यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवे विंस्तीर्णं तु तल ततः स शिरसा योज्योऽङ्गुलीयादिषु व्याख्यायदमुष्य हीरकस्य निम्नमङ्गं गभीर सद्भिस्त च्छिर उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुलीयादिषु मुद्रिकादिषु शिरसैव योज्यो न तलेन । परीक्षाप्रकारमाह वामे वामविलोचनः करतलं विस्तार्य तस्मिन् पवि तर्जन्या परिचालयेदवहितः प्रायस्तलेन स्थितः ॥ ४६ ॥ अवहितः पण्डितः, वाम करतलं विस्तारें, तस्मिन् पवि त जैन्या परिचालयेत् । कीदृशःवामविलोचनः वक्रदृष्टिः सन्नेव । प्रायस्तलेन नीचत्वेनावस्थितः किं विचारणीयं तदाह " ५