पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० आयुर्वेदीयग्रन्थमाला । [अध्यायः जातिदोषगुणौ खनिर्गिरिकथे रङ्गापरौ छवि मल्यं चेति दशप्रकारमशनेर्जानाति यो लक्षणम् । बाह्याभ्यन्तरतः प्रविष्ट इव स स्याच्छास्रतो मण्डली तेषा संसदमाह चार्यविबुधः श्रीमण्डल मण्डली।४७। व्याख्या कथा इतिहासःरङ्गः शुक्लादिःअपरश्नो नीलादि, छविः कान्तिः, मौल्यं देशदेशीयंइति दशप्रकारं पर्यः लक्षण जानाति स मण्डलीं प्रविशेत् । क इव ? पवे बाह्याभ्यन्तरतः प्रविष्ट इव । कस्माच्छास्रतः । मण्डलीसंज्ञाया अर्थमाह-तेषामिति । तेषा मण्डलिकानां रत्नविदां सभां मण्डलीमाहुः ॥ अथ मण्डलीप्रवेशानझन् वक्त-( अथ च मौल्ये कश्चि द्विशेषार्थमाह--) हीनाङ्गः प्रविशेन तां न पतितो नो वाऽन्त्यजो नाबला भाण्डालैरिह मौल्यमल्पमधिकं प्रोक्तं न दोषाय तत् । व्युत्क्रम्योत्तममध्यमविपर्यासेन यद्यत्तथा स्नेहाकुब्धतया तु संसदि पुनः कुष्ठी भवेन्मण्डली॥४८ स्पष्टम् । अथैकेन मौल्यविचारणा न कार्येत्याह नैको मौल्यविचारणां विरचयेनैकः परीक्षेत वा श्रान्तेः पूरुषधर्मतस्तु कुंतके मुह्यन्ति सुज्ञा मणौ । शाणक्षारविलेखनेन विनुदेत्संदेहमन्ये पुन र्लिख्यन्ते कुलिशेन हन्त कुलिशं केनापि नो लिख्यते४९ त्रयाख्या-श्रमप्रमादादीना पुरुषर्माण सचात्संदेहे शाङ्करविलेखनेन् पविं विलिखेत् । अन्ये तु मणयः कुलि- शेन लिख्यते । इति हीरकपरीक्षा । १ अय पाठ प्रक्षिप्त इति भाति । ३ कृतके लयस कृत्रिमे मणौ।