पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] आयुर्वेदप्रकाश । १७५ आयुः पुष्टि बल वीर्य वर्ण सौख्यं करोति च । सेवितं सर्वरोगघ्नं मृतं वजं न संशयः ॥ ७३ ॥ अथ वज़शोधनम् व्याघीकन्दगत वर्गों दोलायत्रेण पाचयेत् । सप्ताहं कोद्रवकाथे कुलिशं विमलं भवेत् ॥ ७४ ॥ अन्यत्र दिनान्यप्युक्तानि- कुलत्थकोद्रवकाथे दोलायन्त्रे विपाचयेत् । व्यापीकन्दगतं वजं त्रिदिनं तद्विशुध्यति ॥ ७५ ॥ व्याधी कण्टकारिका । प्रकारान्तरम् व्यापीकन्दगतं वजं मृदा लिसं पुटे पचेत् । अहोरात्रात्समुद्धृत्य हयसूत्रेण सेचयेत् । वीक्षीरेण वा सिञ्चेत्कुलिशं विमलं भवेत् ॥ ७६ ॥ प्रकारान्तरम् गृहीत्वा हि शुभे वजं व्यानीकन्दे विनिक्षिपेत् । महिषीविष्ठया लिख । करीषाग्नौ विपाचयेत् ॥ ७७ ॥ त्रियामं वा चतुर्यामं यामिन्यन्तेऽश्वसूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुध्यति ॥ ७८ ॥ अथ वजमारणम् त्रिवर्षाढकार्षासमूलमादायु पेषयेत् । त्रिवर्षनागचख्या वा निजद्रावैः प्रपेषयेत् ॥ ७९ ॥ तद्दलके क्षिपेद्वनं रुद्धा गजपुटे पचेत् । एव सप्तपुटैर्नानं कुलिशं मृतिमाप्नुयात् ॥ ८० ॥ इति वङ्गभस्म । अथान्यः प्रकारः त्रिसप्तकृत्वः संततं खरसूत्रेण सेचितम् । मत्कुणैतालकं पिष्टा तद्दौले कुलिशं क्षिपेत् ॥ ८१ ॥