पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ आयुर्वेदीयग्रन्थमाला। [ अध्याय प्रध्मातं वाजिमूत्रेण सिक्त पूर्वक्रमेण वै । भस्मीभवति तद्वजं शङ्कशीतागुसुन्दरम् ॥ ८२ ॥ इति वङ्गभस्म । अथान्यः प्रकारः कांस्यपात्रस्थभेकय मूत्रे वज़ समावपेत् । त्रिसप्तकृत्वः संतप्तं वजमेवं मृतं भवेत् ॥ ८३ ॥ इति वङ्गभस्म । कास्यपात्रस्थभेकस्येत्यस्य व्याख्या कांस्यस्य उत्ताना कटोरिका, तत्रस्थो भेको मण्डूकःअङ्गुल्या दिना धर्षितः, पात्रस्य चिक्कणतया बहिर्गन्तुमशक्तो भीतः सन्सूत्रं सृजति । इति सूत्रग्रहणार्थमयं यत इति भावः । अन्यः प्रकारः मेषशृङ्ग भुजङ्गास्थि कूर्मपृष्ठाम्लवेतसम् । शशदन्तं सम पिष्ट्वा वीक्षीरेण गोलकम् ॥ ८४॥ कृत्वा तन्मध्यगं व म्रियते ध्मातमेव हि । इति वङ्गभस्तु । अथान्यः सुगमः प्रकारः हिङसैन्धवसंयुक्ते क्षिपेत्काथे कुलत्थजे । तप्तं तप्तं पुनर्वी भवेद्भस्म त्रिसप्तधा ॥ ८५ ॥ इति वङ्गभस्स । अथ विद्रुमलक्षणगुणाः। पकबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमत्रणकं स्थूल प्रवाल सप्तधा शुभम् ॥ ८६ ॥ आगाररजनाकान्तं वनं घूक्ष्मं सकोटरम् । रूझे कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ८७ ॥ बालार्ककिरणान्नरक्ता सागरसलिलोद्भवा लता याऽस्ति । न त्यजति निजरुचि निकषे धृष्टाऽपि सा स्मृता जात्या८८ प्रवाल मधुर साम्लं कफपित्तादिदोषनुत् । वीर्यकान्तिकर स्त्रीणा घृते मङ्गलदायकम् ॥ ८९ ॥