पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ आयुर्वेदीयग्रन्थमाला । [अध्याय कुशेशयदलच्छायं खच्छू स्निग्धं महत्स्फुटम् । वृत्तायतं समं गात्रं माणिक्यं त्वष्टधा शुभम् ॥ १०० ॥ माणिक्यं दीपनं वृष्य कफवातघ्यार्तिनुत् । भूतवेतालपापनं कर्मजव्याधिनाशनम् ।। १०१ ॥ अथ गरुत्मतम् । मरकतं हि विषघ्नं शीतलं मधुरं रसे । अम्लपित्तहरं रुच्यं पुष्टिद भूतनाशनम् ।। १०२ ॥ खच्छ च गुरु सुच्छायं निग्धं गात्रं च मादेवम् ।। अच्यटुं बहुरङ्गं च शुभ मरकतं मतम् ।। १०३ ।। शर्करिलं रूक्षमलिन लघु हीनकान्तिकल्माषम् । आसयुतं विकृताहुं मरकतममरोऽपि नोपभुञ्जीत ।१०४ यच्छैवालशिखण्डिशाङ्गलहरिकयैश्च काकच्छदैः खद्योतेन च बालकौरवपुषा शैरीषपुष्पेण च । छायाभिः सततं दधाति तंदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥१०५॥ अथ चैङ्कर्यम् । वैढूर्यघृष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमन भूमिजं च शुभावहम् ॥ १०६ ॥ एकं वेपलाशपेशलरूचा माथुण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । यद्रात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विदलं वदन्ति सुधियः खच्छं च तच्छोभनम् । विच्छायं मृच्छिलागर्भ लघु रूक्षे त्वसत्कृतम् । सत्रासं चिपिटं कृष्णं वैडूर्यं दूतस्त्यजेत् ॥ १०८ ॥ १ ‘‘हरित्कालैश्च’ ग । २ ‘नितरा’ ग ।