पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।


कृष्णधतूरकद्रवैश्वाञ्चल्यविनिवृत्तये ।
मर्दनोत्थापने कुर्यात् सूतराजख चाऽसकृत् ॥ ५८ ॥
त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये ।
गिरिदोष त्रिकटुना कन्यातीयेन यत्नतः ॥ ५९ ॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोष विशोधयेत् ॥ ६० ॥
एव संशोधितः स्रुतः सप्तदोषविवर्जितः ।
जायते कायेकर्ता च अन्यथा कार्येनाशकः ॥ ६१ ॥
अथ रसस्य कक्षुकहरणम् ।
कुमारिकाचित्रुकुरक्तसर्षपैः
कृतैः कषायैर्घुहृतीविमिश्रितेः ।
फलत्रिकेनापि विमदिँतो रसो
दिनत्रयं समलैर्विमुच्यते ।। ६२ ।।
इति युगपत्समलनाशनम् ॥
अथोत्थापनम् ।
तत उत्थापयेत्सूतमातपे निम्बुकार्दितम् ।
उत्थापनावशिष्टं तु चूर्ण पातनयन्त्रके ॥ ६३ ॥
ध्रुत्वाऽनावृध्र्वेभाण्डासं संगृद्देत्पारदं भिषक् ॥ ६४ ॥
वाग्भटोऽपि-
अस्माद्विरेकात्संशुद्धो रसः पाल्यस्ततः परम् ।।
उत्थितः काञ्जिककार्थेः क्षालनीयस्ततः परम् ।। ६५ ।।
रसरत्नाकरस्तूत्थापनऴ्शमसह्यमानः सुगमोपायमाह; यथा-
प्रक्षाल्य काखिकै साम्लैखमादाय विमर्दयेत्।
प्रक्षाल्य काञ्जिकेनैव तमादाय विमूच्छैयेत् ॥ ६६ ॥
इति लुगमप्रकारः ।