पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ } आयुर्वेदप्रकाश । १७९ वैडूर्य श्यामशुभ्राभं समं खच्छं गुरु स्फुटम् । भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ १०९ ॥ धृष्टं यदात्मना स्वच्छं खच्छायां निकषात्मनि । स्फुटं प्रदर्शयेदेतद्वैडूर्य जात्यमुच्यते ॥ ११० ॥ वैडूर्य रक्तपित्तघ्नं प्रजायुर्बलवर्धनम् । पित्तप्रधानरोगनं दीपन वृष्यमेव च ।। १११ ॥ अथ गोमेदम् । सुस्ख़च्छगोजलच्छायं स्निग्धं स्खच्छं समं गुरु । निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥ ११२॥ गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ ११३ ॥ पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्वलितम् । 'ऽप्यहीनकान्ति गोमेदं तं बुधा विदुर्जात्यम् ॥ ११४ ॥ गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ ११५ ॥ विच्छायं लघु रूक्षाङ्क चिपिट पटलाचितम् । निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ ११६ ॥ अथेन्द्रनीलम् । एकच्छायं गुरु स्निग्धं खच्छं पिण्डितविग्रहम् । मृदुर्मथ्ये लसज्योतिः सप्तधा नीलमुत्तमम् ॥ ११७ ॥ श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । विषमज्वरदुर्गासपापघ्नं नीलसीरितम् ॥ ११८ ॥ नीलकस्तिक्तकः श्रेष्ठः कफपित्तानिलापहः । यो दधाति शरीरस्य शौरिर्मङ्गलदो भवेत् ॥ ११९ ॥ न निनो निर्मलो गाने मसृणो मुरुदीर्तितः। तृणग्राफ़ी धूदुर्गालो दुर्लभो लक्षणान्वितः ॥ १२० ॥