पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० आयुर्वेदीयग्रन्थमाला । [अध्याय सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः। विप्रादिवर्णसिद्धे धारणमस्यापि वजवफलवत् ॥ १२१ ॥ अस्त्यानचन्द्रिकास्यन्दसुन्दरीक्षीरपूरितम् । यत्पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ १२२ ॥ अथ पुष्परागम् । सच्छायपीतगुरुगात्रसुरङ्गयुद्धे स्निग्ध च निर्मलमतीव सुवृत्तशीतम् । यत्पुष्परागममलं क्षयनाशकारि पुष्णाति कीर्तिमतिशौर्यसुखायुरर्थान् ॥ १२३ ॥ कृष्णबिन्द्वहितं यक्ष धवल मलिनं लघु । विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ १२४ ॥ धृष्टो निकषपदे यत्पुष्यति यो रागमधिकमात्मीयम् । एष खलु पुष्परागो जात्यस्तथाऽयं परीक्षकैरुक्तः ॥१२५॥ पुष्पराग गुरु स्निग्धं स्खच्छ स्थूलं समं मृदु । कर्णिकारप्रस्रनाभ मसृणं शुभमष्टधा ॥ १२६॥ पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् । कुष्ठाशंदाहशमन दीपनं लघु पाचनम् ॥ १२७ ॥ अथ सर्वेषां समुचितं लक्ष्म श्यामः स्यादिन्द्रनीलस्त्वतिमसृणतनुश्चथ गारुत्मतः स्या- नीलच्छायोऽतिदीप्तोऽप्यथ मिहिरमणि सूर्यतप्तोऽग्निब्रुक्स्यात् । चन्द्राद्यस्पर्शतोऽम्भः स्रवति शशिमणिः पुष्परागस्तु पुष्प प्रख्यः श्रीवजमुच्चञ्चनसमभिहतं संविशेल्लोहपिण्डे ॥ १२८॥ वैडूर्य यद्विडालेक्षणरुचि गदितं स्याच्च गोमेदरलँ गोमूत्राभं विधूमज्वलदनलनिभं पद्मरागं वदन्ति । मुक्ताशङ्प्रवालं सरिदधिषतिजं विश्वविख्यातमेत द्राजावते तु पीतारुणमृदुसुरभिक्षोणिभागोत्थमाहुः१२९