पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ आयुर्वेदीयग्रन्थमाला । [अध्यायः यः सूर्यांशुस्पर्शनिस्यूतवह्नि जत्यः सोऽय कथ्यते सूर्यकान्तः ॥ १३८ ॥ इन्दुकान्तश्चन्द्रकान्तश्चन्द्रामा चन्द्रजोपलः। शीतात्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ १३९ ॥ चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्त्रतापनुत् । शिवश्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशनः ॥ १४० ॥ स्निग्धं शीत पीतमत्रासमन्त धत्ते चित्ते खच्छता यन्मुनीनाम् । यश्च स्रावं याति चन्द्राशुसङ्गा जात्य रत्न चन्द्रकान्ताख्यमेतत् ॥ १४१ ॥ राजावतं नृपावत राजन्यावर्तकस्तथा। आवतेमणिरावर्तः स्यादित्येष शराह्वयः ॥ १४२ ॥ राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । सौभाग्यं कुरुते नृणा भूषणेषु प्रयोजितः ॥ १४३ ॥ निगरमसितमर्ण नल गुरु निर्मल बहुच्छयम् । शिखिकण्ठसमं सौम्यं राजावर्त वदन्ति जात्यमणिम् ॥१४४॥ पेरोजं हरिताश्मा च भसाङ्गं हरितं द्विधा । पिरोज सुकषाय स्यान्मधुर दीपन सरम् ॥ १४५॥ थावर जङ्गमं चैव संयोगाच्चापि यद्विषम्। तत्सर्वं नाशयेच्छीघ्र मूलभूतादिदोषजम् ॥ १४६॥ इति ॥ अथाशेषरत्नाना शोधनमारण, उक्तं च – रत्नपरलान्येतानि शोधनीयानि यत्नतः । । अशुद्धानि न कुर्वन्ति गुणान् रोगांस्तु तन्वते ॥ १४७ ॥