पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] आयुर्वेदप्रकाश । पुष्परागं च संधानैः कुलत्थकाथसंयुतेः । तन्दुलीयजलैर्वी नील नीलीरसेन च ॥ १४९ ॥ रोचनाद्भिश्च गोमेद वैडूर्यं त्रिफलाजलैः। धृतान्येतेषु संस्खिन्नान्याशु शुध्यन्ति दोलया ।। १५० ॥ लकुचद्रावसंपिष्टैः शिलातालकगन्धकैः । वनं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ।। १५१ ।। इति सर्वत्रभसीकरणम् । अत्र कश्चिद्विशेषः रत्नादीनामलाभे तु ग्राह्य तस्योपरत्नकम् । मौक्तिकस्याऽप्यभावे तु मुक्ताशुक्ति प्रयोजयेत् ॥ १५२ ।। अत्र गुरुचरणाः न हन्याद्धीरकादीनि नवरत्नानि बुद्धिमान् । महामौल्यानि तेषा तु वधे रौरपमृच्छति ॥ १५३ ॥ तर्हि ऋषिभिः कथं हननक्रियोक्तेति सदेहनिवृत्यर्थ परं परोपदेशप्राप्त बीजमस्ति, तद्यथा-- वस्रादीना तु सस्कारे क्रियमाणे पतन्ति ये । गात्रेभ्यः खण्डकाः खल्पास्तान् हन्यादुद्धिमान् भिषक् । यद्ध तत्खनिजाता ये तज्जातीयाः सुलक्षणाः । खल्पमूल्यास्तु तेषा हि वधे नास्तीह पातकम् ॥ इति १५५ अन्यच्च गुणा यथेच रत्नानामुपरतेषु ते तथा । तेषु किचित्ततो हीना विशेषोऽयमुदाहृतः ॥ १५६ ॥ अथोपरत्नेषु वैक्रान्तोत्पत्तिनामगुणशोधनमारणानि । देच्या हते महादैत्ये महिषासुरसज्ञके । तद्देहरुधिरोद्धृता बिन्दवो यत्र यत्र हि ॥ १५७ ।। पतिता विन्ध्यकाद्रेस्तु दक्षिणोत्तरतो रणे । वज़ाकारास्तु ते जाता वैक्रान्ता इति विश्रुताः ॥ १५८ ।।