पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्वेदीयग्रन्थमाला । [ अध्याय ऐशानी, शेषस्य माणिक्यस्य, शेषा मध्या दिक्, कर्णिकायां न्यसेदित्यर्थः । अथाशक्तस्य ग्रहस्रातिकूल्ये धारणदाने आह माणिक्यं धूमणेर्युधस्य गरुडोद्भारो गुरोः पुष्पकं गोमेद तमसः प्रवालमत्रनीमूनोर्विधोमौक्तिकम् । नीलं मन्दगतेः कवेस्तु कुलिश केतोर्बिडालाक्षक रत्नं रश्नविदो वदन्ति विहितं दानेऽथवा धारणे॥१७४ धूमणेः सूर्यस्य, तमसः राहो, अवनीमूनोर्मङ्गलस्य, मन्द गतेः शनैश्चरस्य, कवेः शुक्रस्य, बिडालाक्षकं विदूरमणिः, एषा प्रातिकूल्ये यथासंभवं दानं धारणं च कार्यम् । अथ मुक्ताफलाना टुतिस्तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह मुक्ताफलानि सप्ताह वेतसाऽम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ १७५ ॥ पुटपाकेन तच्चूर्ण द्रवते सलिल यथा । कुरुते योगराजोऽय रत्नाना द्रावण प्रिये ॥ १७६ ॥ इति मुक्तादिरनदृतयः। अथ सौराष्ट्रीसवम् सिताऽसिता च सौराष्ट्री गोपितैर्भावयेतु ताम् । शतवारं प्रयत्नेन मित्रपञ्चकसंयुताम् । धमनान्मुञ्चते सव क्रामक कोष्ठयत्रके ।। १७७ ।। अथ सस्यसत्त्वम् सस्यकं चूर्णितं भाव्य दिनं शशकशोणितैः । स्त्रीमूत्रे वाऽथ यामैकं तत्पादाशा निशा क्षिपेत् ॥ १७८॥ मर्थ करञ्जतैलेन यामैकं गोलकं च तत् । अन्धमूषागत ध्मातं घटिकार्ध दृढाग्निना । इन्द्रगोपकसंकाशं सत्च मुञ्चति शोभनम् ॥ १७९ ॥ इति श्रसौराष्ट्रदेशोद्भवसारस्वतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वैदप्रकाशे त्रयोदशोऽध्याय ॥ १३ ॥ १ ‘झमके ग ।