पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ॥

आयुर्वेदप्रकाश । १८७ अथ चतुर्दशोऽध्यायः । अथ विषोपविषलक्षणजातिगुणसेवापरिहाराध्ययं व्याख्यस्य म । अथ विषोत्पत्तिः- णु देवि प्रवक्ष्यामि यत्रोत्पन्नं महाविषम् । भेदास्तस्य वरारोहे यत्र तत्र सविस्तरम् ॥ १ ॥ । देवदैत्योरगाः सिद्धा अप्सरोयक्षराक्षसाः । पिशाचाः किन्नराश्चैव मिलित्वा च वरानने ॥ २ ॥ एकतो बलिराजस्तु ब्रह्माद्याश्च तथैकतः । मन्थान मन्दर कृत्वा नागराजेन वेष्टितम् ॥ ३ ॥ क्षीराब्धिमन्थनं तत्र प्रारब्ध सुरसुन्दरि । सुधादीनि सुरत्नानि निर्गतानि ततः परम् ॥ ४ ॥ अतीव मन्थनाद्देवि मन्दराघातवेगतः । अहिराजश्रमादेव विषज्याला विनिर्गता ।। ५ ॥ ततोऽतिघोरा सा ज्वाला निमग्ना क्षीरसागरे । (तथा तत्रैव चोत्पन्नं कालकूटं महाविषम् । प्रलयानलसंकाश क्रुद्धः काल इवोत्कटम् ।) ता दृष्ट्वा विबुधाः सर्वे दानवाश्च महाबलाः ॥ ६ ॥ विषण्णवदनाः सद्यः प्राप्तायैव मदन्तिकम् । ततस्तैः प्रार्थमानोऽहमपिबं विषमुत्तमम् ॥ ७ ॥ ततोऽवशिष्टमभवन्मूलरूपेण तद्विषम् । पत्ररूपेण कुत्रापि मृत्तिकारूपतः कचित् ॥ ८ ॥ कन्दरूपेण कुत्रापि तेषा लक्षणमुच्यते । विष तु गरलं वेडं कालकूटं च नामत’ । अष्टादशविधं ज्ञेय विष कन्दभवं बुधैः ॥ ९ ॥ तेष्वष्टौ सौम्यभेदाः स्युर्भक्षणाद्धन्ति मानवम् । दशग्रभेदाः संस्पर्शादाघ्राणाद्वाऽपि मारकाः॥ १० ॥