पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ आयुर्वेदीयग्रन्थमाला। [अध्याय यथा सक्तुको मुस्तकः कौम दार्वाकः सार्षपस्तथा । सैकतो वत्सनाभश्च श्वेतJी तथैव च ॥ ११ ॥ एतानि भैषज्यकृते विषाण्यष्टौ समाहरेत् । जराव्याधिहराणि स्युर्विधिना शीलितानि हि ।। १२ ।। लक्षणाने चित्रमुत्पलकन्दाभं सुपेष्यं सक्तुवद्भवेत् । सक्तुकं त विजानीयाद्दीर्घवेगं महोत्कटम् ॥ १३ ॥ इस्खवेगं च रोगनं मुस्तकं मुस्तकाकृति । कूर्माकृति भवेत्कर्म दार्वकं हि फणाकृति ।। १४ ॥ ज्वरहृत्सार्षपं रोमि सर्षपाभकणान्वितम् । स्थूलसूक्ष्मकणैर्युक्तः श्वेतपीतैर्बिरोमकः ॥ १५॥ ज्वरादिसर्वरोगक्षः कन्दः सैकत उच्यते । यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गलात् ॥ १६ ॥ न स्थूलो गोस्तनादूर्व द्विविधो वत्सनाभकः । आशुकारी लघुस्त्यागी शुक्लः कृष्णोऽन्यथा भवेत् ॥१७॥ प्रयोज्यो रोगहरणे जारणाया रसायने । गोशङ्गवद्विधा झाङ्गी श्वेतः स्याद्धहिरन्तरे ॥ १८॥ एतानि सक्तुकादीनि वातरक्ते त्रिदोषके । मोहोन्मादापस्मृतिषु कुष्ठेषु च नियोजयेत् ॥ १९ ॥ वातरक्ते वृतप्रधानरोगे रक्तप्रधानरोगे उभयप्रधानरोगे वा इति तत्त्वार्थः । अथ वज्र्यानि कालकूटस्तथा मेषी दर्दूरकस्तथा । हालाहलश्च कर्कोटो ग्रन्थिहरिद्रकस्तथा ॥ २० ॥ १ ‘दीर्घरोग’ ग । २ ‘सर्षपाभकणाकृति’ ग ।