पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
आयुर्वेदप्रकाश ।

अन्यत्राऽपि ।-
जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् ।
अथवा पातनायत्रे पातनादुत्थितो भवेत् ॥६७॥ इति ।
अथ पातनम् ।
तच त्रिविधं—ऊर्ध्वाधस्तिर्यग्भेदात्; तत्रोुपातनं यथा-
भागास्त्रयो रसखाऽर्केचूर्णेश्यैकोऽथ निम्बुकैः ॥ ६८ ॥
एतत्संमर्दयेत्तावद्यावदायति पिण्डताम् ।
तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ।। ६९ ।।
कृत्वाऽऽलवाल केनापि दत्त्वा चार्द्र हि प्लोतकम् ।
संमुद्रयाग्निमधस्तख चतुर्यामं प्रबोधयेत् ॥ ७० ॥
युक्त्योध्र्वभाण्डसंलग्रं गृह्णीयात्पारदं ततः ।
ऊर्ध्वपातनमित्युक्तं भिषग्भिः स्रुतशोधने ।। ७१ ।।
ससूतभाण्डविवरमन्युद्धिलति भाण्डकम् ।
तथा सैधिर्द्वयोः कायेः पातनात्रययत्रके ॥ ७२ ॥
यत्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्ष्णैः ।
रसस्य मानानियमात्कथितुं नैव शक्यते । ७३ ।।
अकेचूिर्णेय ताम्ररजसः ॥
अथान्यन्मतम् -
मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतख च ।
यचे डमरुके कुर्याद्रसेन्द्रखोध्र्वपातनम् ॥ ७४ ॥
मयूरग्रीवं तुत्थकं, ताप्यं खर्णमाक्षिर्क, नष्टपिष्टांकृतख
‘कुमारिकाद्रवयोगेन' इति शेषः ।।
अथाधःपातनम् ।
त्रिफलाशियुशिखिभिर्लवणामूरिसेंयुतैः ।
नष्टपिष्ट रसं कृत्वा लेपयेद्ध्र्वभाण्डके ॥ ७५ ॥