पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४] आयुवदप्रकाश । रक्ती केसरश्च यमदंष्ट्रा च पण्डितैः । त्याज्यानीमानि योगेषु विषाणि दश तत्वतः॥ २१ ॥ लक्षणानि देवासुररणे देवैर्हतय भृथुमालिनः। दैत्यस्य रुधिराजतस्तरुरश्वत्थसंनिभः ॥ २२ ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः। सोऽहिच्छत्रे श्ङ्गवेरे कोङ्कणे मलये भवेत् ।। २३ ।। शृङ्गवेरः पर्वतविशेषः । घनं रूक्षे सुकठिनं भिन्नाञ्जनसमप्रभम् । कन्दकार समाख्यात कालकूट महाविषम् ॥ २४ ॥ लक्षणान्तरम् वृत्तः कन्दो भवेच्छुष्को जम्बीरफलवच्च यः। तत्कालकूटं जानीयाद्राणमात्रान्मृतिप्रदम् ॥ २५ ॥ मेषशृङ्गाकृतिः कन्दो मेषीति कीर्यते । द&राकृतिकः कन्दो दद्रः कथितस्तु सः ॥ २६ ॥ गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा ।। तेजसा यस्य दह्यन्ते समीपस्था दुमादयः ॥ २७ ॥ असौ हालाहलो ज्ञेयः किष्किन्धाया हिमालये । दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते ।। २८ ॥ अन्तनीला बहिः श्वेतो हालाहल उदाहृतः । कर्कोटामं तु कर्कोटं खर वावेऽन्तरे मृदु ॥ २९ ॥ हरिद्राग्रन्थिवद्रन्थिः सः स्यात्कृष्णोऽतिभीषणः । मूलाग्रयोस्तु वृत्तः स्यादायतः पीतगर्भकः ॥ ३० ॥ कथंकाढ्यः स्निग्धपदों हारिद्रः स तु कन्दकः। गोत्रेऽग्रे च निक्षिप्ते नासयाऽसृक्प्रवर्तते ।। ३१ ॥ १ ‘घुमालिन’ ग । २‘भवेकृष्णो’ ग ।