पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० आयुर्वेदीयग्रन्थमाला । [अध्याय । कन्दो लघुर्गात नवद्रक्तीति तद्विषम् । शुष्काद्रवत्सकिञ्जल्कं मध्ये तत्केसर विदुः ॥ ३२ ॥ श्वदंष्ट्रारूपसस्थाना यमदंष्ट्रैति सोच्यते । रसायने धातुवादे विषवादे कश्चित्कचित् । दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ।। ३३ ॥ अथ कैश्चिन्नव भेदा उक्तास्ते यथा वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः । सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ॥ ३४ ॥ हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव । पलाशपत्रवत्पत्रैस्तीजसदृशैः फलैः ॥ ३५ ॥ स्थूलः कन्दो भवेत्तस्य प्रभावस्तु महान् स्मृतः । सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ॥ ३६ ॥ यत्पार्थे न तरोर्मुद्धिर्वसनाभः स भाषितः। वर्णतो लोहितो यः स्याद्धर्हिमान् दहनप्रभः ॥ ३७ ॥ महादाहकरो घ्राणात्कथितः स प्रदीपनः । वर्णतः कपिलो यत्स्यात्तथा भवति सारकः । ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ॥ ३८ ॥ शेषाः पूर्वमुक्ता एव । अथैषामुत्पत्तिस्थानानि-वत्सनाभः पर्वतक्षोणीधृत्पद्यते, हारिद्रो हरिद्राकक्षेषु, सक्तुकः पर्वतदेशे, प्रदीपनः समकक्षेषु, सौराष्ट्रिकः सुराष्ट्रदेशे, फुङ्गिकः कपि लेषु नदीकक्षेषु, कालकूटोऽहिच्छत्रादौ, हालाहलः किष्कि- न्धादौ, ब्रह्मपुत्रः ब्रह्मनाम कश्चन पर्वतप्रदेशस्तस्य कक्षेषु । अथैषां वर्णाः ब्राह्मण पाण्ड्रविषं क्षत्रिय रक्तवर्णकम् । वैश्य पीतप्रभ शूद्रं कृष्णवर्ण विनिन्दितम् ।। ३९ ।। ।