पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४] आयुर्वेदप्रकाश । १९ १ ब्राह्मणं दीयते रोगे क्षत्रियं विषभक्षणे। वैश्यं व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ॥ ४० ॥ अथ विषगुणाः विषं रसायन बल्यं वातश्लेष्मविकारनुत् । कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥ ४१ ॥ व्यवायि शीतनुद्भाहि कुष्ठवातास्रनाशनम् । अग्निमान्द्य श्वासकासं प्लीहोदरभगन्दरान् । गुल्मपाण्डुव्रणाऽसि नाशयेद्विधिसेवितम् ।। ४२ ।। अन्यत्रापि विष प्राणहर प्रोक्त व्यवायि च विकाशि च । आग्नेयं वातकफहृद्योगवाहि मदाबहम् ॥ ४३ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । पथ्याशिना त्रिदोषन्न बृहण वीर्यवर्धनम् ॥ ४४ ॥ व्यवायि सकलकायं व्याप्य पाकगमनशील, विकाशि ओजःशोषणपूर्वकसंधिबन्धशिथिलीकरणशील, आग्नेयं अ- धिकाश्यशं, योगवाहि सङ्गिगुणग्राहक, मदावह तमोगुणा धिक्येन बुद्धिविध्वंसकम् । अथ विषशोधनम्— ये दुर्गुणा विषेष्यदं ते स्युहींना विशोधिते । तसाद्विष प्रयोगेषु शोधित योजयेद्भिषक् ॥ ४५ ॥ यथा उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु । अच्यावृत विषहरैर्वातादिभिरशोषितम् ।। ४६ ॥ विषहरैर्मयूमण्यादिभिः । विषभागाश्चणकवत्स्थूलान् कृत्वा तु भाजने । तत्र गोमूत्रकं क्षित्रा प्रत्यहं नित्यनूतनम् ॥ ४७ ॥