पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ आयुर्वेदीयग्रन्थमाला । [अध्याय शोषयेत्रिदिनादूर्व धृत्वा तीव्रातपे ततः। प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ ४८ ॥ इय शुद्धिः ग्रीष्मर्वादवुचिता, तत्र तीव्रातपसद्भावात् । रक्तसर्षपतैलेन लिते वाससि धारयेत् । विष शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ ४९ ॥ अथ तीव्रातपाभावे प्रकारान्तरेण शोधन विषभागश्चणकचत्स्थूलान् कृत्वा तु खेदयेत् । गोदुग्धे घटिकाः पञ्च शुद्धिमायाति तद्विषम् ॥ ५० ॥ न प्रोक्तं शोधनं यस्य विषस्योपविषस्य वा । गोदुग्धे खेदनं तस्य कर्तव्यं शुद्धिकारकम् ॥ ५१ ॥ योगतरङ्गिण्याम् विष तु खण्डशः कृत्या वस्त्रखण्डेन बन्धयेत् । गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥ ५२ ॥ गोमूत्र तु प्रदातव्यं प्रत्यह नूतन बुधैः । त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् । शुध्यत्येवं विष सेवायोग्यं भवति रोगजित् ॥ ५३ ॥ अथान्यः प्रकारः खण्डीकृत्य विष वस्त्रपरिबद्ध तु दोलया । अजापयसि संस्खिन यामतः शुद्धिमाप्नुयात् ॥ ५४ ॥ क्षीराभावे ह्यजायास्तु गव्यक्षीरेण शोधयेत् । जायते दोषनिर्मुक्तं विष योगेषु योजयेत् ॥ ५५ ॥ अथान्यः प्रकारः विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूत विष शुचि ॥ ५६ ॥ इति विषयुद्धिः॥ A =