पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ॥ आयुर्वेदप्रकाशः । समटङ्कणसंपिष्टं तद्विषं मृतमुच्यते । योजयेत्सर्वरोगेषु न विकारं करोति च ॥ ५७ ॥ अन्यमतम् तुल्येन शृणेनैव द्विगुणेनोपणेन च । विषं संयोजितं शुद्धं मृत भवति सर्वथा ॥ ५८ ॥ इति विषकल्पार्थ विषमारणम् । अथ विषसेवा- नानारसौषधैर्यं तु दुष्टा यान्तीह नो गदाः। ते नश्यन्ति विषे दत्ते शीघ्र वातकफोद्भवाः ॥ ५९ ॥ शरीष्मवसन्तेषु वर्षासु च न दापयेत् । हेमन्तशिशिरतौ तु विधिना मात्रयाऽर्पयेत् ॥ ६० ॥ चतुर्मासैर्हरेद्रोगान् कुष्ठलूतादिकानपि । अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ॥ ६१ ॥ विषं तसै न दातव्यं दत्त चेद्रोगकारकम् । दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ॥ ६२॥ क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे । ब्रह्मचर्यप्रधानं हि विषकल्पं समाचरेत् । पथ्यैः खस्थमना भूत्वा तदा सिद्धि सशयः ॥ ६३ ॥ अथ विषानधिकारिणः न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मिणि । क्षुत्तृष्णाश्रमकर्माध्वसेविनि क्षयरोगिणि ॥ ६४॥ गर्भिण्या बालवृद्धेषु न विषं राजमन्दिरे ।। न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।। ६५॥ आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् । विषं शुद्धं हि तदपि मात्रया नान्यथा भजेत् ॥ ६६ ॥ सर्वरोगोपशमनं दृष्टिपुष्टिकर विषम् । विधिना मात्रया काले भवेत्पथ्याशिना नृणाम् ॥ ६७ ॥ १७