पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ आयुर्वेदीयग्रन्थमाला । [बध्यायः अथ विषमात्राकथनम्- यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया । सर्वरोगहरं नृणा जायते शोधितं विषम् ।। ६८ ॥ प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् । तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ।। ६९॥ षष्ठे च सप्तमे चैव क्रमवृद्धा विवर्धयेत् । सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ ७० ॥ क्रमहान्या तथा देयं द्वितीये सप्तके विषम् । यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ ७१ ॥ वृद्धा हान्या प्रदातव्य चतुर्थे सप्तके तथा । एवं सात्म्ये समायाते परा मात्र भिषग्वरः ॥ ७२ ॥ स्थिरीकुर्याद्यथेच्छं तु ततस्त्यागं तु कारयेत् । सेवनक्रमहान्यऽयं विषकल्प इतीरितः ॥ ७३ ॥ यवमात्रं ग्रसेत्खच्छो ज़ामात्रं तु कुष्ठवान् । एवं यचाष्टपर्यन्तं परा मात्राऽधिका नहि ॥ ७४ ॥ अथ विषे पथ्यानि- घृतं क्षीरं सिता क्षौद्र गोधूमास्तण्डुलान्यवान् । मरिचं सैन्धव द्राक्षां मधुर पानकं हिमम् ॥ ७५ ॥ ब्रह्मचर्य हिमं देशं हिमं काल हिमं जलम् । विषस्य सेवको मर्यो भजेदतिविचक्षणः ॥ ७६ ॥ अथ विषपरीक्षा मात्राधिक यदा मर्यः प्रमादाद्भक्षयेद्विषम् । अथैौ वेगास्तदा तेन जायन्ते तस्य देहिनः ॥ ७७ ॥ प्रशमः प्रथमे वेगे द्वितीये वेपथुर्भवेत् । वेगे तृतीये दाहः स्याचतुर्थे पतन झुवि ॥ ७८ ॥