पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ॥ आयुर्वेदप्रकाशते। फेनं वमेत्पञ्चमे तु षष्ठे वैकल्यमेव च । जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ ७९ ॥ विषवेगानिति ज्ञात्वा मन्त्रद्रव्यैर्विनाशयेत् । यावनष्टमवेगं तु संप्राप्नोति हि मानवः ॥ ८० ।। अतिमात्रं यदा भुक्तं वमनं तय कारयेत् । अजादुग्ध ददेत्तावद्यावद्वन्तिर्न जायते ॥ ८१ ॥ अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः। विषवेगं तदोत्तीर्ण जानीयात्कुशलो भिषक् ॥ ८२ ॥ तदा जीर्णमिति कश्चित्पाठः । । विषं हन्याद्रसः पीतो रजनीमेघनादयोः । सर्वांक्षी टङ्कणं वाऽपि घृतेन विषहृत्परम् ॥ ८३॥ चत्वारो योगाः पुत्रजीवकमज वा पीता निम्बुकवारिणा । विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ ८४ ॥ गोघृतपीता हरति विष गरल च वन्ध्यकर्कटी । सकलविषोपशमनी त्रिमूली सुरभिजिह्वा च ॥ ८५ ॥ अतिमात्र यदा भुक्तं तदाऽऽज्यं टङ्कण पिबेत् । विष सवेगं तेनाशु नाशमाभोति निश्चितम् ॥ ८६ ॥ वाग्भटः आदौ वान्तविरिक्तस्य हरिद्रे कटभी गुडम् । सिन्धुवारकनिष्पावबाष्पिकाशतपर्विका- ॥ ८७ ।। तन्दुलीयकमूलानि कुकुटाण्डमवल्गुजम् । नावनाञ्जनपानेषु योजयेद्विषशान्तये ॥८८॥ विषभुक्ताय दद्याच्च शुद्धायोर्वमधस्तथा । सुक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ८९ ॥