पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• १९८ आयुर्वेदीयग्रन्थमाला । [अध्याय एतैर्विमर्दितः सुतश्छिन्नपक्षः प्रजायते । सुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ।। १०४ ।। अर्कसेहुण्डयोर्मुग्धमितराणां जटा भवेत् । रसः प्रयोज्यो योगेषु यद्वा पश्वङ्गजो रसः ।। १०५॥ भतान्तरम् - अर्कनुग्लाङ्गलीगुजाहारिविषमुष्टयः । आफ्नोन्मत्तजेपाला नवोषविषजातयः ॥ १०६ ॥ भङ्गा तु अनिश्चितैव, मासगणे अजायीवत्। अथोपविषशुद्धिः लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । इति लाङ्गलीशुद्धिः । गुआ काञ्जिकसंखिन प्रहरं शुद्धिमृच्छति । इति शुद्धाशुद्धिः। किंचिदाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ।। १०७ ॥ इति विषमुष्टिशुद्धिः। जेपालं रहितं त्वगङ्गररसज्ञाभिर्मले माहिषे निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे स वासार्दितम् । लिसं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं निम्बूकाम्बुविभावित च बहुशः शुद्धे गुणाढ्यं भवेत् ॥ इति जेपालशुद्धिः। धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः। कण्डितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥ १०९ ॥ इति धत्तूरबीजशुद्धिः । अहिफेनं यङ्गवेररसैभव्य त्रिसप्तधा । शुद्धयत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ । ११० ॥ इत्यहिफेनशुद्धिः। १ यदाह चरक ,-‘‘योनावजाविके मिश्रगोचरत्वादनिश्चिते’’-इति ।