पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।


ऊर्धवेभाण्डोदरं लिप्वाऽधोभाण्डे जलं क्षिपेत् ।
सन्धिलेपं द्वयोः कृत्वा तद्यत्र भ्रुवि पूरयेत् ।। ७६ ।।
उपरिष्टात्पुटे दत्ते जले पतति पारदः ।
अधःपातनमित्युक्तं सिद्धाद्यैः स्रुतकर्मेणि ।। ७७ ॥
त्रिफलेति व्याख्याता । अधोभाण्डे जलं क्षिपेदिति वचनात्संपुटपात्रमध्ये जल प्राप्यते, तच्च संप्रदायविरुद्धं, अतः संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तखोपरि सपुट दद्यात्, पश्चात्तख संपुटखाधःपात्रस्य च संधिरोधः कार्य इति तात्पर्येतो ज्ञेयम् । उपरिष्टात्पुटे दत्ते इति पुटं चात्र केौकुट यथायथरसमात्रापेक्षया वा विशतिवनोत्पलैरधिकैवी निवातस्थले शनैः शनैर्देयमिति गुरुसश्रदायः ।।
अथान्यन्मतम् -
नवनीताभ्रकं सूत घृष्ट्वा जम्भाम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ७८ ।।
‘नष्टपिष्टं रसं कृत्वा' इत्यादि पूर्ववत् ।
अथ तिर्यक्पातनम् ।
घटे रसं विनिक्षिप्य सजलं घटमन्यकम् ।
तिर्यबुखं द्वयोः कृत्वा समुख रोधयेत्सुधीः ।। ७९ ।।
तथैव चुल्ल्या संस्थाप्य यत्नतस्तु ततो भिषक् ।
रसाधो ज्वालयेदग्निं यावत्स्रुतो जलं वेिशेत् ८० ।।
तिर्यक्पातनमित्युक्तं सिद्धैनीगार्जुनादिभिः ।
मिश्रितौ चेन्नागवङ्गौ रसे विक्रयहेतुना ।। ८१ ।।
ताभ्यां स्यात् कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ।
एवं सुसंस्कृतः.छ्तः पात्नावधि यत्नतः ।। ८२ ।।
सर्वदोषविनिर्मुक्तो जायते नात्र संशयः ॥ ८३ ॥