पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।


मतान्तरम्--
लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित् क्षिप्त्वा श्रावेण रोधयेत् ॥९१॥
ऊर्ध्वं लघुपुटो देयः प्राप्तपुंस्त्वो रसो भवेत् ॥ ९२ ॥
मतान्तरम्-
एव कदर्थितः स्रुतः षण्ढभावं प्रयाति हि ।
बह्वौषधिकषायेण खेदितः सबलो भवेत् ।। ९३ ।।
यथा-
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः खेदितो बली ।
निरस्तषण्ढभावोऽसौ जायते हि रसोत्तमः ।। ९४ ।।
सर्पोक्षी नागिणी, चिञ्चा अम्लिका, वन्ध्या वाझखखसा, भृङ्गो भृङ्गराजः, अब्दो मुस्ता नागरसंज्ञको ग्राह्यः । एषा रसो ग्राह्यः ।
अथ नियमनम् ।
सर्पाक्षी चिञ्चिका वन्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संखेदितः स्रुतो नियमात् स्थिरतां व्रजेत् ।। ९५ ।।
मतान्तरम्-
उत्तराशाभवस्थूलरक्तसैन्धवलोष्टक. ।
तद्गर्भे रन्ध्रर्क कृत्वा सूतं तत्र विनिक्षिपेत् ॥ ९६ ॥
ततस्तु चणकक्षार्र दत्त्वा चोपरि निम्बुजम्।
रसुं प्रक्षिप्य दातव्यं ताइक्सैन्धवखुण्डकम्॥१७॥
गतं कृत्वा धरागभ दत्त्वा संन्धवसपुटम् ।
लिमष्टाङ्गुलां दत्त्वा कारीषं दिनसकम् ॥ ९८ ॥
वृद्धिं प्रज्वाल्व तद्वाह्य क्षालयेत्काञ्जिकेन च ।
अथॆ नियमनो नाम संस्कारो गद्विलो बुधैः ।। ९९ ॥