पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।


भवति । सप्तःकञ्चुकाः सप्तावरणानि शिवशापाज्जातानि, तद्विमुक्ततया शुद्धस्रुतो बुधैः कथ्यत इति । अथ जारणम् । जारणा हि नाम गालनपातनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वं, फलं चास्य प्रोक्ते खय महेश्वरेण---

सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्ती प्राप्तमेव स्याष्ट्रिज्ञान मुक्तिलक्षणम् ।
मोक्ष्ाभिव्यञ्जकं देवि जारणा साधकस्य तु ।। १०७ ।।
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं चन्दनं चैव ग्रासः पूजाऽभिधीयते ।। १०८ ।।
यावद्दिनानि देवेशि वह्निस्थो धार्येते रसः ।
तावद्दशसहस्राणि शिवलोके महीयते ॥ १०९ ॥
दिनमेक रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ।। ११० ।।
                                        इत्यादि ॥
विपिनौषधिपाकसिद्धमेतद्वृततैलाद्यपि दुर्निवारवीयेमू ।
किमयं पुनरीश्वराङ्गजन्मा घेनजाम्बूनदचन्द्रभानुजीणैः॥१११॥
सगुणबलिजारण विनाऽय न खलु रुजा ह्ररणक्ष्मो रसेन्द्रः ।
न जलदकलधौतपाकद्दीनः स्पृशति रसायनतामिति प्रतिज्ञा ।
अजारयन्तः पविहेमगन्र्ध वाञ्छन्ति सूतात् फलमप्युदारम् ।
 क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥११३
घनरहृितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृल्याः ।
कुप्णाः प्राप्य सूमुद्रं 'वराटिकालाभसंतुष्टाः । ११४ ।।
अभ्रकजारणमादौ गभेद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी ऋथैव सोऽर्थक्ष्य कुरुते ॥ ११५ ॥
 सन्धकजारितस्तस्य फलमुत्तँ शिवागमे -