पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
१५
आयुर्वेदप्रकाश ।

तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्टहा ॥ ११६ ॥
त्रिगुणे गन्धके जीर्णे सर्वेर्जाड्यविनाशनः ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ ११७ ॥
गन्धे पश्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगह्वरो रंसः ।
अवइयमित्युवाचेदं देवी श्रीभैरवः खयम् ।। ११८ ।।
 अन्यत्रापि –
समे गन्धे तु रोगघ्रो द्विगुणे राजयक्ष्मजित् ।
जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशनः ॥ ११९ ॥
चतुर्गुणे तु तेजखी सर्वशास्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ १२० ॥
“षड्गुणे रोगघ्न’ इत्युक्तं यत्ततु मूर्छायामेवाधिगन्तव्य, तत्र गन्धकस्य समग्रजारणाया अभावात् । अत्र तु समे गन्धे इति तृतीयार्थे सप्तमी; ( तेन समेन गन्धेन तुल्यगन्धेन जीणैः पारदो मूच्छैनाबिधिना मृतः, तत्फल रोगप्तता ) एवं द्विगुणादिष्वपि व्याख्येयमिति प्रतिभाति ।
तसाच्तुगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखपेंरतालादिसत्त्वे जीर्णे गुणावहः ॥ १२१ ॥
हेम्नि जीर्णे सहसैकगुणसपत्प्रदायक: ।
वज्रादेिजीणेसूतस्य गुणान् वेत्ति शिवः स्वयम् ।। १२२ ।।
देव्या रजो भवेद्भन्धो धातुः शुक्र तथाऽभ्रकम् ।
आालिङ्गने समर्थेीं द्वौ प्रियत्वाच्छिवरेतसः ।। १२३ ।।
शिवशक्तिसमायोगात् प्राप्यते परर्म पदम् ।
 यथा खाञ्जारणाँ बह्वी तथा स्याद्गुणदो रसः ।। १२४ ।।


१ ‘सर्वेषाण्ढ्यविनाशन' क । २ ‘भवेत् ख । ३ अय पाठ ख पुस्तके नोपलभ्यते ॥ ४ ‘स्याज्जारणावह्निस्तथा’ क ।