पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
१७
आयुर्वेदप्रकाश ।


शुद्धाः सन्तो मृता अमृता वा यथावचनं योज्या नाशुद्धा इति दिक्॥ इह खलु पुरुषेण दुःखख निरुपाधिद्वेषविषयत्वात्तदभावश्चिकीर्षितव्यो भवति, सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीर्य, तदेतत्पुरुषार्थद्वयम्। अत्र स्रक्चन्दनललनादिविषयाणा सलूपि तत्कारणत्वे(सुखूकारणले)नान्तरीयकदुःखसमेदादनथेपरंपरापरिचितत्वान्मूर्खाणार्माकाशोद्रङ्कवदाभासमानत्वादनैकान्तिकत्वाद्विरोधिनां युगपददृश्यमानत्वादत्यन्ताविरहितत्वाच्च परिह्रणीयैम्| एकान्ताल्यन्ततः पुनरेतेऽभ्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव संभवन्ति-ज्ञानयोग, प्राणयोगो, रसयोगश्चति । ननु, कथमेतेषा तुल्यतेल्यपेक्षाया बूम:-मोक्षेोपाये बृहद्वासिष्ट भुशुण्डोपाख्याने वसिष्ठवाक्यम्-- असाध्यः कश्चिद्युगः कस्यचिज्ज्ञाननिश्चयः । द्वौ प्रकारो ततो देवी जगाद परमः शिवः । प्राणानां वा निरोधेन वासनानोदनेन वा ॥ १२५ ॥

इत्यादि
तस्मादेतेषा समानत्वमनवद्यम् । तत्राद्ययोः केवल पक्कषायाणामपि कथञ्चन साध्यत्वात्, चरमे पुनर्मोगलोलुपानामप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति । किचास्य भगवन्निर्यासकतया सेवकानां खसभूतसकलधातुत्वापादकख भगवती रसराजस्य गुणसिन्धोः कियन्तो मूर्छना, ताः प्रसङ्गाष्टिख्यन्ते । अथाव्यभिचरितव्याधिघातकेत्वं मूर्च्छना, तत्प्रकारा बहुवेिधाः । तत्र

१ आकाशोद्रङ्कवद्रन्धर्वनगरवदित्यर्थ । 'कोशाण्डवदाभासमानत्वात् ख । *केशरकस्तूरिकाकोशवदाभासमानत्वातू' क ॥ २ सुखकारणत्वमिति भाव ।