पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदनम् । रसमाधव इति प्रसिद्ध आयुवेदप्रकाशनामाय अन्थ सारखतब्राह्मण जातीयेन सौराष्ट्रदेशजन्मना वाराणसीनिवासिना उपा याथोपनामकेन माधवेन विरचित इति आयुर्वेदप्रकाशस्यान्ते लिखितात् ग्रन्थसमाप्तिवाक्यात् प्रतीयते । स चायमायुर्वेदप्र काश खिस्तीयसप्तदशशताब्द्या विरचित इति प्रतीयते, ख्रिस्तीये १६०० वत्सरे विरचितस्य भावप्रकाशस्य आयुर्वेदप्रकाशे उल्लेखात् । पाकावलिनामकोऽन्योऽपि ग्रन्थ उपाध्यायमाधवविरचितो मुद्रित उपलभ्यते । आयुर्वेदप्रकाशे रसशास्रप्रतिपाद्या प्राय सवेऽपि विषया अतिस्पष्टतया अनुभूति पथगा एवोपवणेिता सन्ति । अतोऽयं ग्रन्थो भिषजां छात्राणा चातीवोपयुक्तं । ग्रन्थस्यास्य मुद्रणार्थमादर्शेपुरूतकत्रयमुपलब्धम् । प्रथमं क सज्ञित मदीयपरम सुहृद्धि वैद्य त्र्यम्बक गुरुनाथ काळे इखेतै सपादित भिषग्विलासपत्रे प्रसिद्धीकृत अपूर्ण, द्वितीय ख सज्ञक बु दीराजधानीनिवासिना मदीयपरमसुहृदा राजवैद्य श्रीप्रसादशर्मणा सकाशाल्लब्ध, तृतीय ग सज्ञफ मदीयपरमसुहृदा खर्गवासिना वैद्य मुरारजीशमणा ग्रन्थसमहृात् प्राप्तम् । ग्रन्थस्यास्य संशोधनार्थं यथामति कृतेऽपि यह्ने भ्रमश्रमाद्ादिवशाज्जात स्खलन क्ाप्युपलभ्येत चेतू सुधीभि सशोधनीय क्षन्तव्यश्चाहमितेि यादवशर्मण ।