पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
१९
आयुर्वेदप्रकाश ।

ततस्तेभ्यः पृथकुर्यान् स्रुतं प्रक्षाल्य काञ्जिकैः ।
ततः क्षिप्त्वा रसं खल्वे रसादर्धं च सैन्धवम् ॥ १३० ॥
मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम्।
ततो राजी रसोनश्च मुख्यश्च नवसागरः ।। १३१ ।।
एतै रससमैस्तद्वत् स्रुतो मद्यैस्तुषाम्बुना ।
ततः संशोष्य चक्राभं कृत्वा लिप्त्वा च हिङ्गुना ।। १३२ ।।
द्विस्थालीसंपुटे धृत्वा पूरयेल्लवणेन च ।
अधःस्थाल्या ततो मुद्रां दद्यादृढतरां बुधः ॥ १३३ ॥
विशोष्याग्नि विधायाधो निषिञ्चदम्बु चोपरि ।
ततस्तु दद्यात्तीव्राझि तद्धः प्रह्वरत्रयम् ।। १३४ ।।
एवं निपत्य यात्यूध्र्व रसो दोषविवर्जितः ।
अथोध्र्वपिठरीमध्ये लग्नो ग्राह्यो रसोत्तमः ॥ १३५॥ इति ।
एर्व रसे गृहीते पुनस्तोलिते हीने सति पुनस्तद्यत्रं संमुद्य शेषखोध्वैपातन कृत्वा रसो ग्राह्य इति गुरुसप्रदायः । अथान्यत्रापि---
एतावतस्तु संस्कारान् छ्तस्य कर्तुमक्षमैः ।
न्मुख्यान् क्रियतः कृत्वा ग्राह्यो रोमापनुत्तये ॥ १३६ ।।
रसराजलक्ष्म्यां
दग्धोणोगृह्णधूमसाररजनीरतेष्टिकाकाञ्जिकैः
पिष्ट्रा व्योषकुमारिकानलवरानिम्बुद्रवैर्वीसरम् ॥
व्योषाद्यम्बुनि दोलया रचितया खिन्ने सुताम्राष्ट्रियुक् ।
पिष्टं भाण्डतलाञ्जलाश्रयगत स्रुतं समभ्युद्धरेत् ।। १३७ ।।
लवणसलिलदोलायत्रमध्ये दिनैक
भुजगनयनवन्ध्याभुङ्गकल्कान्तरस्थ: ।


१ “वा रसम्' क ।