पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
२१
आयुर्वेदप्रकाश ।

संमर्द्यः परिपाल्य यत्रविधिना निष्कासितः सप्तधा ।
शुद्धः पारदर्मर्दकैर्निगदितो वैद्यैरर्वेद्यैर्नेरैः ।। १४८ ।।
अथान्यन्मतम्--
श्रीखण्डं देवदारु च काकतुण्डीजयाद्रवम् ।
ककॉटीमुसलीकन्याद्रव दत्त्वा विमर्दयेन् ॥ १४९ ॥
दिनैकं पातयेत्पत्रेि तच्छुद्धं विनियोजयेत् ।
अथान्यसिद्धमतम्
कुमार्या च निशाचूर्णैर्दिनैकं मर्दयेद्रसम् । १५० ।।
पातयेत्पातनायचे शुद्धो भवति पारदः ।
अथान्यसिद्धमतम्--
एकेन लशुनेनापि शुद्धो भवति पारदः ।। १५१ ।।
तप्तखल्वे मासमेकं पिष्टो लवणसयुतः ।
अथवू यूहयेत्सुत दरद्भुतन्निगद्यते । १५२ ।।
कक्षुकैनॉगवङ्गाद्यैर्विमुक्तो रसकमेणि ।
हिङ्गुलाकृष्टस्तस्तु जीर्णगन्धसमो गुणैः ।। १५३ ॥
निम्बपत्ररसैः पेष्य हिडुल याममात्रकम्।
जम्बीराणा द्रवैर्वाऽथ पाल्य पातनयन्त्रके ॥ १५४ ॥
तं सूर्त योजयेत्पश्चात्सप्तकक्षुकवर्जितम्।
इत्येव शुद्धमाख्यातं यथेष्टैक प्रकारयेत् ॥ १५५ ॥
अन्यत्रापि--
अथवा दरदाकृष्ट खिन्न लवणाम्बुभिस्तु दोलायाम्।
रसमादाय यथेच्छं कतेव्यस्तेन भेषजो योगः ।। १५६ ।।
निम्बूरसेन सपिष्टात् प्रहर्र दरदादृढम् ।
ऊर्ध्वपातनयंत्रेण सग्राह्यो निर्मलो रसः ॥ १५७ ।।
इति सुगमशोधनम् ।


१ ‘पारदकर्मठे ? क । २ पातयेत्पश्चात् क ।