पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

अथैवं शोधितस्य मुखकरणमुक्तं तत्रान्तरे ।--
सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः सोषणकैस्त्रिरात्रम् ।
पिष्टस्ततः खिन्नतनुः सुवर्णमुखानय खादति संवैधातून् ।
अन्यन्मतम्।--
अथ षड्रबिन्दुकीटैश्व रसो मद्यखिवासरम् ।
लवणाम्लैर्मुखं तख जायते ग्रासलोलुपम् ॥ १५९ ॥
अथवा बिन्दुलीकीटै:' इत्यपि पाठान्तरम् ।
शार्ङ्गधरोऽपि--
कालकूटो वत्सनाभः शृङ्गीकश्व प्रदीपनः ।
हालाहृलो ब्रह्मपुत्रो ह्ारिद्र: संतुकस्तथा ।। १६० ।।
सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ।
अर्कसेहुण्डधतूरलाङ्गलीकरवीरकाः ॥ १६१ ॥
गुञ्जाह्रिफेनाविलेताः सप्तोपविषजातयः ।
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।। १६२ ।।
मुखं च जायते तस्य धातूंश्च ग्रसतेतरॊम् ।
अथवा त्रिकटु श्ारौ राजी लवणपञ्चकम् ।। १६३ ।।
रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः ।
समांशैः पारदादेतैर्जम्बीरोत्थद्रवेण च ॥ १६४ ॥
निम्बुतीयैः काञ्जिकैवों सोष्णखल्वे विमर्दयेत् ।
अहोरात्रत्रयेण स्याद्रसे धातुचरं मुखम् ॥ १६५ ॥
वस्तुतस्तु दीपनखैवापरपर्यायो मुखकरणमिति न पृथक् संस्कां, तृत्साधकूान्यूनुर्विशतिकर्माणीति नूियमभहूान् ।
अथेवं संशुद्धरसे आदी गन्धकजारणा । शिवागमे—
अजीर्णं तु अबीजं तु सूतकं यस्तु घातयेत् ।
ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ! ॥ १६६ ॥


१ ‘धातुघस्मरम्मू' ख' ॥ २ ‘त्वरन् क ।